पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभाष्यम् ।

समुश्चिचीवयाऽविद्वन्निन्द । तत्र च यस्य येन समुपः संमवति न्याचतः शास्त्रतो वा तदिहोच्यते । दैवं वित्तं देवताविज्ञानं कर्मसंबन्धित्वेनोपन्यस्तेन परमात्मविज्ञानं विद्यया देवलोक इति पृथक्फलारजासतो ज्ञानकर्मणोरिहैकैकानुष्ठाननिम्दा समुच्जिच्चिषया निन्दापरेककस्थ पृथक्फलाश्रयणाद्विद्यया तदारोहन्ति विद्यया देवलोकः । तत्र दक्षिणा पन्ति कर्मणा पितृलोक इति । न हि शास्त्रविहितं किंचिदकर्तव्यतामिवात् ॥८॥ | अन्धं तमः प्रविशन्ति। पडनुष्टुम अस्मदेवत्याः।अन्धं तमोऽदर्शनात्मकेत्तमः प्रविशन्ति । के येऽविद्यामविद्या कर्मेत्यर्थः। अबिद्यामग्निहोत्रादिलक्षयामेव केवलामुपासते । तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः। ततो भूय इव ते तमः । ततस्तस्मान्धात्मकाभूय एव बहुतरमेव तमः प्रविशन्ति ते क इति । य उ विद्यायां रता ये तु कमें हित्वा ये उ एवं विद्यायामेव रता ज्ञान एव रतास्ततो बहुतरमेव तमः प्रविशन्ति । अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽरजना इति श्रुतेः ॥ ९ ॥

अत्रावान्तरफलभेदं विद्याकर्मणोः समुञ्चये कारणमाहान्यथा कले वदफलवतोः संनिहितयोरङ्गाङ्गितैव स्यादिति–अन्यदेवाऽऽहुरिति ।अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुः । अन्यदेवाऽऽहुरविद्यया कर्मणाऽन्यदेव फलं क्रियत इत्याहुर्वेदाः कर्मणा पितृलोंको विद्यया देवलोक इत्यादयः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनं शुश्रुम । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचाक्षिरे व्याख्या तवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १० ॥

यत एवं विद्यां चाविद्यां चेति देवताज्ञानं कर्म चेत्यर्थः । वस्तद्वेद तदुभयं ज्ञानं कर्म च सहैकेन रूपेणानुष्ठेयं यो वेद तस्यैव समुच्चयकारिण एकपुरुषार्थसंबन्धक्रमेण किं स्यादित्युच्यते-अविद्यया मृत्युं तीर्वेति । अविद्यया कर्मणाऽग्निहोत्रादिना मृत्युं स्वाभाविकं रागतः क्रियमाणं कर्म ज्ञानं च सृत्युशब्दवाच्यं तदुभयं तीर्त्वाऽतिक्रम्य विद्यया वेदान्तज्ञानेनामृतं देवतात्ममावमश्नुते व्याप्नोति । तदत्रामृतमश्नुते यद्देवतात्मगमनम् ॥ ११ ॥ | अधुना व्याकृत(व्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दो- पते-