पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आनन्दमट्टोपाध्यायकृतम्-।

इति । शोकमोहोरविद्याकार्ययोः संसारमसंसारमित्यज्ञानयोराक्षेपेण संप्रदर्शनासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥७॥

 योऽयमतीतेन मन्त्रेणोक्त आत्मा किंलक्षण इत्यपेक्षायामयं मन्त्रः प्रवर्तते स पर्यगादिति । आत्मदेवत्या जगती । स यथोक्त आरमा पर्यगात्परितः समन्तादगात्परितो गच्छति सर्वमवगच्छति व्याप्नोति च ।आकाशवद्यापी शुक्र शुच दीप्तौं शुचिमद्दीप्तिमदित्यर्थः । अकायमशरीरं लिङ्गशरीरवजितमव्रणमहतम् । अस्न्नविरं स्नावाः शिरा न विद्यन्ते यस्य तदस्राविरं कविः क्रान्तदर्शी नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषामुपरि भवतीति परिभूः । स्वयमेव भवतीति स्वयंभः । येषामुपरि भवति यश्चोपरि भवति स स्वयमेव सर्वं भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरः । याथातथ्यतो यथातथा माधो याथातथ्यं यथाश्रुतकर्मफलसाधनतोऽर्थाकर्तव्यपदार्थान्व्यदधाकरोद्विहितवान्यथानुरूपं व्यधादित्यर्थः । शाश्वतीभ्यः समाभ्यः संवत्सरात्मभ्यः प्रजापतिभ्य इत्यर्थः । अत्राऽऽद्येन मन्त्रेण सर्वेषणापरित्यागाज्ज्ञाननिष्ठोक्ता । प्रथमो वेदार्थः। ईशा वास्य- मित्यादिना मा गृधः कस्यस्विद्धनामिति । अज्ञानिनां जिजीविषूणां ज्ञाननिष्ठासंभवे सति कुर्वन्नेव कर्माणि जिजीबिषेज्जिजीविषेरिति कर्मनिष्ठा । द्वितीयो वेदार्थः । अनयोश्चिरंतनयोर्मन्त्रः प्रदर्शितः–सोऽकामयत जाया मे स्यादिति तस्याज्ञानिनः कर्माणि । मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च निश्चितमवगम्यते । तथा चाऽऽत्मस्वरूपावस्थानं जायाचेषणासंन्यासेनाऽऽत्मविदा कर्मनिष्ठाप्रातिकूल्येनाऽऽस्मस्वरूपनिष्ठेव दर्शनात् । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यादिना यज्ज्ञाननिष्ठासंन्यासिनस्तेऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनः स पर्यगादिति वदतो मन्त्रैरुपादिष्टो १ यत्र तत्राधिकृता न कामिन इति । यथा च श्वेताश्वतराणां मन्त्रोपनिषदि--अत्यामिभ्यः परमं पवित्रं प्रोबाच सम्यगृषिसंघजुटमित्यादि विभज्योक्तम् । ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते--अन्धं तम इत्यादिना । कथं पुनरिदमवगम्यते साध्यसाधनभेदोपमर्शनम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।तत्र को मोहः कः शोक एकत्वमनुपश्यतः । यदात्मैकत्वविज्ञानं तत्र केनचिदपि कर्मणा ज्ञानान्तरेण वा स मूढः समुच्चिीवति । भक्तु