पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभाष्यम् ।

ह्यसौ वायुधारयतीति वा । मीषाऽस्माद्वातः पवत इत्यादिश्रुतिभ्यः ।सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वस्याऽऽदिभूते सत्येव भवन्तीत्यर्थः । न मन्त्राणां जामिताऽस्तीति पूर्वोक्तोऽर्थः॥४॥

| कंचिद्विशेषं दर्शयन्नाह—तदेजति । यस्तु सर्वाणि भूतानि यस्मिन्सर्वाणि भूतानीत्यात्मदेवतास्तिस्रोऽनुष्टमः । तदेजति । तद्यत्प्रकृतमात्मतत्त्वं तदेजत्युपोधित एजति चलति । तन्नैजति । तदेव त्वात्मतत्त्वमतो नैजति नैव चलति । अचलमेव सञ्चलतीव भवतीत्यर्थः। तददूरे। वर्षकोटिशतैरप्यविदुषामप्राप्यत्वातददूरे एव । तत् उ एव अन्तिकेऽतिसमीपे विदुः घामात्मत्वात्तदन्तिक एव । अत्यन्तसमीप एव न केवलं दूरेऽन्तिके तदन्तोऽस्य सर्वस्य जगतोऽन्तरात्मैव । एष त आत्मा सर्वान्तर इति श्रुतेः ।अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदेव सर्वस्य बाह्यतो व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादतो ज्ञानघन एवेति शासना- ग्निरन्तरम् ॥ ५ ॥

यस्तु शोधिततत्त्वंपदार्थों मुमुक्षुः सर्वाणि भूतान्यव्यक्तानि स्थावरा- न्तानि चेतमाचेतनान्यात्मानं त्वामन्वन्वेति सदा पश्यत्यात्मव्यतिरिक्तानि न प्रपश्यति । अपि त्वात्मन्यात्मत्वेन पश्यतीत्यर्थः । सर्वभूतेषु चाऽऽत्मानं तेषु सर्वेषु भूतेषु चाऽऽत्मानमनुपश्यति तेषामपि मूतानामात्मानमात्मतत्त्वं न पश्यति यथाऽस्य कार्यकरणसंघातरूपमात्मानं सर्वप्रत्यय साक्षिभूतं सत्यं केवलम् । निर्गुणोऽनेनैव स्वरूपेणाव्यक्तानां स्थावराज्ञानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं यस्तु पश्यति । ततस्तस्माद्दर्शनान्न विजुगुप्सते जुगुप्सां घृणां न करोति गुपू रक्षणे देहादिकं गोप्तुं न गच्छतीति वा । ज्ञानप्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यद्रष्टव्यं पश्यतो भवति। आत्मानमेव त्वनन्तेषु विशुद्धं निरन्तरं पश्यतो न प्राणादिनिमित्तमस्तीति प्राप्तमेव ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मन्त्र आह । सर्वासां श्रुतीनामत्रैव तात्पर्यमिति प्रदर्शयितुम्-यस्मिन्सर्वाणि भूतानीति । यस्मिन्यथोक्त आत्मनि सर्वाणि भूतानि तान्येव भूतानि परमार्थदर्शनादात्मैवाभूदात्मैव संवृत्तः ।परमार्थतो विजानत एवमात्मतत्त्वं विजानत एतत्तस्मिन्काले तस्मि-न्नवस्थाविशेषे तत्र चाऽऽत्मनि को मोहः । मुह वैचित्ये को मोहः कः शोकः कः संसार एकत्वमनुपश्यतः । शोकमोहौ कामबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक