पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आनन्दमट्टोपाध्यायकृतम्-

ल्लोकांस्ते प्रेत्य सृत्वेमं देहं परित्यज्याभिगच्छन्ति । यथाकर्म यथाश्रुतं ते तान्गच्छन्ति । ते क इति तानाह-ये के चाऽऽत्महनो जना इति ।आत्मानं घ्नन्तीत्यात्महननमात्मभेददर्शनं तत्कुर्वन्ति ते केऽविद्वांसः स्वस्वरूपाविदस्तद्विपर्ययेण विद्वांसो मुच्यन्ते न त्वात्महनः ॥ ३ ॥

 तर्हि तत्कीदृशमात्मतत्त्वमिति तदाह–अनेजदेकमिति । आत्मदे- वत्या त्रिष्टुप् । अतिवेगवान्वायुः प्रसिद्धस्ततो हि वेगवत्तरं मनस्ततोऽप्यतिवेगवत्तरमात्मतत्त्वं कथं विरुद्धमिदमुच्यते निश्चलं जवीय इति ।नैष दोषो निरुपाध्युपाधिमत्त्वोपपत्तेः । तत्र निरुपाधिस्वरूपेणोच्यतेअनेजदेकमिति । सोपाधिस्वरूपेणोच्यते-मनसो जवीय इति । मनसो जवेनान्तःकरणस्य संकल्पादिलक्षणस्योपाधेरनुवर्तमानात्तत्र प्रवृत्तिश्च व्यर्थं पुरतः पुरतश्चाऽऽत्मतत्त्वं प्रकाशत इति ज्योतिर्बाह्मणे प्रसिद्धम् ।इहैव दुःस्थस्य मनसो ब्रह्मलोकादिदूरसंकल्पनं नानागमनं क्षणमात्रादित्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनासि ब्रह्मलोकाद्वि- में गच्छति प्रथमं प्राप्त इवाऽऽत्मचैतन्याभासो गृह्यते । अतो मनसो जवीय इत्याह-किंच नैनद्देवा आप्नुवन्निति । एतदात्मतत्त्वं देवा द्योतनसाधनत्वात्सर्वथाऽपि तदात्मतत्त्वं चक्षुरादीन्द्रियाणि देवा नाऽऽप्नुवन्न प्राप्नुवन्न विषयीकुर्वन्निति । प्रकाशविषयीकर्तुं वा श्रम एवं ततस्तेभ्यो मनो जवीयः । मनोव्यवहारो व्यवहितत्वात् । नाऽऽभासमाब्मत्रप्यात्मनो नैव देवतानां विषयो भवति यत्स्यान्मनसोऽपि पूर्वमर्पत्पूर्वमेव गतं व्योमवद्यापित्वात् । सर्वथाऽपि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन नीरूपेणाविक्रियं सदुपधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मुढानाभेकमनकमिव प्रतिदेहं प्रत्याचक्षते स्वत इत्येतदाह-तद्धावत इति । तद्यत्प्रसिद्धमात्मतत्त्वं तद्धावतो दूरं ंगच्छतोऽन्यान्मनोवागिन्द्रियप्रभृतीनात्मविलक्षणानत्येत्यतीत्य गच्छतव ।इवार्थं स्वयमेव दर्शयति-तिष्ठदिति । तिष्ठत्स्वयं सदित्यर्थः । तस्मिन्नात्मतत्त्वे सति चैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्ववयत इति मातरिश्वा सर्वप्राणभृक्रियात्मकः । यदा सर्वाणि कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपोऽप इति कर्मनाम । अपः कर्माणि प्राणिनां चेष्टालक्षणान्यग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशवर्षादिलक्षणानि यज्ञदानहोमादीनि दधाति स्थापयति विभजतीत्यर्थः । समष्टिव्यष्टिरूप