पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आनन्दमट्टोपाध्यायकृतम्-।

तीष्ट इतीटू तेनेशेशित्रेशा तेन परमेश्वरेण परमात्मना सर्वजन्तूमात्मभूतेन स्वेनाऽऽत्मनेशा वास्यं वसनिवासे वास्यं निवसनीयं किमतीदं प्रत्यक्षादिभिः प्रतीयमानं साक्षिदृश्यं चेदमात्मव्यतिरिक्तं सर्वदमिदमीशावास्यं सर्वेषु स्वकार्येषु स्वकारणभूते निवास्यम् । जगति पृथिव्यां जगत्यां जगत्युपलक्षिते जगति किंचेति चकारो भिन्नक्रमः । जगति व्यक्तं च लोकप्रसिद्धं वस्तुजातं तत्सर्वमशा वास्यं निवास्यं स्वेनाऽऽत्मना निवास्क्यू । किंच वस आच्छादनेऽहमेवेदं सर्वमिति परमसत्यरूपेणशा परमात्मनाऽनृतमिदं सर्वं वास्यं छादनीयमाच्छादनीयं कार्यस्य कारणसत्ताशाप्रकाशव्यतिरंकेणाऽऽरोपितस्याधिष्ठानप्रकाशव्यतिरेकेण पृथक्सत्ताप्रकाशनाभवादेवेदं सर्वं जगदीशा वास्यम् । यतः प्रत्यगात्मनः सञ्चिदानन्दलक्षणपुरुषार्थरूपं स्वत एव सिद्धम् । तेन स्वस्मिन्नारोपितस्याहमिदं ममेदमित्येवमनात्मकस्य सर्वस्यानर्थभूतस्य जगतस्त्यक्तेन त्यागेन सर्वाधिष्ठानभूतस्वस्वरूपयाथात्म्यानुभवसामथ्र्य सिद्धेन त्यक्तेन त्यागे- नाऽऽत्मानं भुञ्जीथाः । भुजेाऽनवन इत्यस्य रूपम् । पालनेऽपि च्छन्दस्यात्मनेपदं भवत्यत आत्मानं भुञ्जीथाः पालयेथाः कृतं कृत्यं प्राप्तं प्रापणीयम् । आत्मलाभान्न परं विद्यत इति श्रुतेः । एवं त्यक्तेषणस्त्वं मा गृधः कस्यस्विद्धनम् । गृधु अभिकाङ्क्षायाम् । कस्यस्वित्परस्य धनं मा गृधः । अभिकाडूक्षा मा कार्षीर्धनविषयाभकाक्षां मा कार्षीरित्यर्थः । स्विदिति निपातो बितर्कवचनः । अस्य संपूर्णकामत्वादेवान्यार्थविषयाकाङ्का किंनु कर्तव्या न कर्तव्येत्यर्थः । विचार्यमाणे तथा विधस्यार्थस्याभावादेवाथवा मा गृधः कस्यचिद्धनमित्याक्षेपार्थों न कस्यचिद्धनमस्ति य्रदृध्येत । आत्मैव सर्वमिती रा भावनया सर्वं दैतमात्रं त्यक्तमत आत्मन एवेदमात्मन एव तु सर्वं परस्य कस्यचित्संबन्धित्वेन प्रतीयमानस्य स्वयं संबधित्वमापादयितुमभिकाङ्क्षांमा कार्षीः स्वव्यतिरेकेणातो मिथ्याविषयं ग्रहं मा कापरित्यर्थः । एवमात्मविदः पुत्राधेषणात्रयसन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येष वेदार्थः ॥ १ ॥

 अथैतस्यर्थस्य ग्रहणस्य तु साधनत्वेनेदमुपदिशति-कुर्वन्नेवेहेति । इह कर्मभूमौ शतं समाः शतं वर्षाणि जिजीविषेद्यदि भवाञ्जीवितुमि- च्छेत्तहि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव भवाञ्जिजीविषेच्छतं समा इति जीवतः पुरुषस्य जीवितं परमायुरनूद्य कुर्वन्कर्माणीत्यवधीयते । एवं