पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यविवृतिः ।

त्यसंबन्धात् । यद्गह्म पर्यगात्परिः सर्वतोभावे सर्वतो जगद्याप्याऽऽसीत्। शुक्र शुद्धं दीप्तिमत्स्वप्रकाशम् । तमेव मान्तमनुमाति सर्वं तस्य भासा सर्वमिदं विभातीति श्रुतेः । अकायं सूक्ष्मदेहरहितमवणं व्रणः..क्षतं तद्वहितमन्नाविरं स्नाविराः शिरा न सन्ति यस्य तन्निरवयवत्वादत्रणम- स्नाविरमिति विशेषणद्वयेन स्थूलशरीरनिरासः । अशरीरं शरीरेष्वनवस्थे- प्ववस्थितमिति श्रुतेः। शुद्धं मायासंबन्धरहितं विरजः पर आकाशादिति श्रुतेस्तमसः परमुच्यत इति गीतावाक्याच्च । अपापविद्धं पुण्यमपि पुनरावृत्तिहेतुत्वात्पापमेव तेनोमयात्मकेनाविद्धमसंबद्धं स न साधना कर्मणा भूयान्नो एवासाधुना कनीयानिति श्रुतेः । नाऽऽदत्ते कस्यचि- त्पापं न चैव सुकृतं विभुरिति भगवद्वाक्याच्च । स एतादृशं ब्रह्मैव स्वशक्तिमादायेश्वरो भूत्वा कविरतीतानागतज्ञः । वेदाह समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानीति गीतायामुक्तत्वात् । मनीषी मनीषा जगत्सर्जनेच्छा तद्वान् । सोऽकामयत बहु स्यां प्रजाये- येति श्रुतेः । अथवा मनोनियन्ता मनसो ये मनो विरिति श्रुतेः । परिभूः परिरुपर्यर्थकः परि सर्वेषामुपरि श्रेष्ठत्वेन भवत्यस्तीति परिभूः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति अतेः । स्वयंभूः स्वयमेव भवति न तु कारणान्तरेणेत्यर्थः । अथवा येषामुपार ययोपरि तत्सदै स्वयमेव भवतीति सर्वरूपः । यथातथ्यतो यथातथाभावो याथातथ्यं तेनेति याथातथ्यतः साध्यसाधनादिप्रतिनियतस्वरूपेणाथाचे तनाचेतनरूपपदार्थान्यदधाद्विभज्य दत्तवान् । शाश्वतीभ्यो नित्या- भ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो यो वै स संवत्सरः प्रजा: पतिः षोडशकल इति श्रुतेरचिन्त्यशक्तिमद्वह्मेति भावः । अत्रार्थे श्लोकयोजना-यद्यापर्क शुद्धमपापविद्धं दुहद्वयातीतमतिप्रकाशम् । कविः स धीमान्प्रवरः स्वयंभूः प्रजापतिभ्यो व्यदधायथाथाम् ॥ १ ॥ अथवा यथोक्तात्मज्ञस्योक्तानुवादपूर्वकमैश्वर्यमाह-सशब्द उत्तरार्धे- नैव संबध्यते यः शुक्रमित्यादि यथोक्तविशेषणविशिष्टं ब्रह्म पर्यगात्स- वैमावेन ज्ञानवान् । गत्यर्थानां बुद्धयर्थत्वात्स ब्रह्मज्ञः कविः क्रान्त- दुर्शी। मनीषी द्वैतासंबन्धेन प्रशस्तबुद्धिमान्परितः सर्वम९ि स्वयमेव भवतीति परिभूः सकलात्मकः । स्वयंभूर्बह्मरूपो यथास्वरूपं तेन तेन रूपेणान्पदार्थान्भोग्यविषयान् । शाश्वतीभ्यः समाभ्यस्ताद चतु- र्यनन्तवर्षोपमोगाय व्यदधात्स्वयमेव कृतवान् । यस्यानुवित्तः. प्रति-