बुद्ध आत्माऽस्मिन्संदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्तेति भुतेर्बह्मविद्रहौव भवतीति भावः ॥ ८॥ अत्रायं संग्राहकः श्लोकः-
यो ज्ञातवाञ्शुद्धमपापविद्धं देहयातीतमतिप्रकाशम् ।। |
ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।। |
उपक्रान्तमात्मतत्त्वमुपसंहृत्य यस्तूक्ततत्त्वानभिज्ञ ईषणात्यागामावेनसैन्यासे च नाधिकारी संसारे च नात्यन्तं सक्तस्तं प्रति चित्तैकाइयार्थमुपासनासमुच्चयं कथयिष्यन्प्रत्येकमुपासना फलकथनव्याजेन निन्दति । अथवोक्तात्मज्ञानस्याखिलश्रेष्ठत्वं तद्यतिरिक्तानां संसरणहेतुत्वप्रदर्शनेनद्रढयति–अन्धं तम इति। ये नरा असंभूतिं सम्यग्मवनं भूतिरुत्पत्तिर्यस्य कार्यस्य तद्भिन्नां कारणरूपामव्याकृताख्यां प्रकृतिमुपासते चिन्तयन्तितेऽन्धं तमोऽदर्शनात्मिकां प्रकृतिं प्रविशन्ति प्रकर्षण विशन्ति पौराणिकोक्तं प्रकृतिलयं प्राप्नुवन्ति । तं यथा यथोपासते तदेव भवतीति श्रुतेः । र उ । ये तु संभूत्या प्रकृतिकार्ये हिरण्यगर्माख्ये रता आसक्तास्तदुपासका इत्यर्थः । ते ततः प्रकृतिलयाद्भूय इवाधिकमिव स्वरूपाज्ञानेन संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदाय प्रविशन्ति प्राप्नुवन्ति ॥ ९॥अत्रार्थ संग्राहकः श्लोकः-
अव्याकृतं हेतुमुपासते ये संप्राप्नुवन्ति प्रकृतौ लयं ते । |
व्याकृताव्याकृतोपासनयोभिन्नफलत्वे श्रुतिरार्यवचः प्रमाणयतिअन्यदेवेति ।संभवात्संभूतिरूपकार्यप्रजापत्युपासनादन्यदेव भिन्नमेवाणिमादिसिद्धिरूपं फलं तत्वज्ञा आहुर्वदन्ति तथाऽसं मवादस भूतिरूपकारव्याकृताख्यप्रकृत्युपासनादन्यत्प्रकृतिलयाख्यं फलमाहुः कथयन्त्युपश्योपासनयोरभेदविवक्षया संभवादसंभवादित्युक्तं ये ज्ञानिनो नोऽस्मभ्यं भाग्यमतेऽन्वर्थसंज्ञाविज्ञानाभावात्संप्रदानत्वम् । अस्मान्धा । अकभितं चेति व्यापरद्वयार्थत्वाद्वा द्विकर्मत्वं तदुपासनाद्वयतत्त्वं विचचक्षिरे व्याख्यात्वन्तस्तेषां धीराणां वाक्यमिति शेषः । अथवा प्रसिद्ध