पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रामचन्द्रपण्डितकृता-।-

'तरं पश्यत्यवलोकयति च परं सर्वभूतेषु तेष्वात्मानमनु कारणात्मनोऽनुगतं पश्यत्यनुभवति । तत ऐकात्म्यज्ञानारस पुरुषो न विचिकित्सति संशयं न प्राप्नोति । संशय उभयकोटिकं ज्ञानं द्वैतं पश्यतो मवति नत्वैकात्म्यज्ञस्येति मावः । यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न तदा विचिकित्सतीति बृहदारण्यकश्रुतेः । सर्वभूतस्थमा- स्मानं सर्वभूतानि चाऽऽत्मनि। संपश्यन्ब्रह्म परमं याति नान्येने हेतुनेति कैवल्यश्रुतेश्च । अस्या एवं श्रुतेरुत्तरार्धं गीतायाम्-ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन इति । छिद्यन्ते सर्वसंशयास्तस्मिन्वृष्टे परावर इति मुण्डकश्रुतेश्च ॥ ६ ॥ अत्रायं संग्राहकः श्लोकः-

यः पश्यतीत्थं सकलानि भूतान्यात्मन्यथाऽऽत्मानमपीह विद्वान् ।
सर्वेषु भूतेषु स तत्त्ववेत्ता निःसंशयः स्यात्सकलैरनिन्द्यः ॥ १ ॥
  ईशावास्यस्य विवृतौ कृताया रामशर्मणा ।।
  मन्त्रः षष्ठोऽपि संपूर्णः प्रीयतां तेन राघवः ॥ २ ॥

अधुनाऽऽत्मज्ञस्य स्थितिमाह-यस्मिन्निति । यस्मिन्काले विजानते आत्मानं साक्षात्कुर्वतः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि न मद्य- तिरिक्तं किंचिदस्त्यहमेव सर्वरूप इत्यात्मैवाभूसंवृत्तः । तत्र तस्मिन्काल एकत्वममैकात्म्यमन्वनुस्यूतं पश्यतोऽनुभवतो मोह आवरणरूपः कः किंनिमित्तकः शोकश्च विक्षेपरूपः कः किं निमित्तक आत्मज्ञानेनावि- याया निरस्तत्वात्स्वरूपं जानतः समूलाविद्योच्छेदादावरणविक्षेपयोर- भावेन कामाद्यनुदयाञ्जीवन्मुक्तिस्थित्या तूष्णीभूत अस्त इत्यर्थः । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तस्य निष्क्रियत्वाभिधा- नात् । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यत इति भगवद्वा; क्याञ्च ॥ ७ ॥ अत्रायं संग्राहकः श्लोकः-- सर्वाणि भूतानि मदात्मकानीत्येवंविदोऽभूत्सकलं यदात्मा। तद्वैकतां पश्यत आत्मरूपे मोहश्च शोकश्च भवेत्कथंस्वित् ॥ १ ॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
संपूर्णः सप्तमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

आत्मज्ञस्थितिमुक्त्वा पुनरात्मस्वरूपं लोकोत्तरैश्वर्यप्रदर्शनेनोपसंहर्तुं वर्णयति-स पर्यगादिति । अत्र स इत्युत्तरार्धं च कविरित्यादिशब्दैः पुंलिङ्गत्वेन निर्देशाच्छुक्रमित्यादीनि विशेषणानि पुंलिङ्गत्वेन विपरि- म्यान्यथवा स इति शब्दो मिन्नक्रम उत्तरार्धन संबध्यते । यत्तदोनि-