पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्थरहस्यविधृतिः ।-

काररहितं सर्ववैकरूपं सर्वान्तर्यामि सर्धचालकं ब्रह्मेत्यर्थः ॥ ४ ॥ अबाथै संग्राहकः श्लोकः-- अकम्पमेकं मनसस्तस्विं न देवता आपुरनाशि पूर्वम् । तिष्टतदस्येस्यपि धावतोऽन्यान्वायुर्हि कर्माणि दधाति तन्न् ।।१॥

 ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
भन्त्रष्रतुर्थः संपूर्णः प्रीयतां तेन राघवः ।। २ ।।

उक्तमर्थमन्योऽपि मन्त्रो वदति । अथवाऽऽत्मतत्वस्यातीतमन्त्रोक्तदुष्प्रापत्वान्तर्यामित्वव्यापकत्वानुवादेन तस्यैव सर्वात्मकत्वं सुखप्राप्यत्वं च श्रुतिरुपपादयति । नात्र पुनरुक्तिर्न मन्त्राणां जामितादोष इति मग-बत्पादैरुक्तत्वात् । जामिताऽऽलस्यम् । रहस्यं सकृदुक्तं चित्ते नाऽऽयातीत्यनलसा श्रुतिः सकरुणा मातेव पुनः पुनरुपदिशति-तदेजतीति ।तत्प्रक्क्मात्मतत्त्वमेजति चलति जङ्गमं तनैजति न चलति स्थावरम् ।पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति श्रुतेः । तदात्मतत्वं दूरे विप्र•कृटे तदु उ एवार्थे यदूरस्थं तदेवान्तिके समीपे समीपस्थमपि तदेव दूरस्थमन्तिकस्थं ब्रह्मैव सर्वगत्वात् । अथवा सर्वरूपवादूरस्थर्मः

प्तिकस्थं च बलेव । अथवाऽज्ञानिनां वर्षकोटिभिरप्यप्राप्यत्वाः दूर इव स्थितम् । आत्मज्ञानिनां तु समीप एवाऽऽत्मत्वेन हृत्स्थत्व सुप्रपिं तब्रह्मास्य प्रत्यक्षस्य सर्वस्य भूतजातस्यान्तरभ्यन्तरेऽन्तर्यामित्वे- नास्ति । तदु तदेव सर्वस्यास्य बाह्यतो बाह्यप्रदेश उत्तमपुरुषत्वेन सा- विभक्तिकस्तसिः । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः । बहिरन्तश्च मूतानामचरे धरमेव च । सूक्ष्मत्वात्तदृविज्ञेयं दूरस्थं धान्तिके च तदिति । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृते इति च गीतावाक्याञ्च ॥ ५॥ अत्रार्य संग्राहकः श्लोकः-

ब्रह्मैव तत्स्थावरजङ्गमात्म स्वाज्ञानिन दूर इवाप्रकाशम् ।
तज्ज्ञानिन भाति सदा समीपे विश्वस्य चान्तश्च बहिस्थितं तत्।।१॥
ईशावास्यस्य विवृती कृताया रामशर्मणा ।
संपूर्णः पञ्चमी मन्त्रः प्रीयतां तेन राघवः ॥२॥॥

उक्तात्मज्ञानस्य फलमाह-यस्त्विति । यस्तु तुशब्दो वैलक्षण्ययोः तको यः पुनलोकविलक्षणदृष्टिः सर्वाणि भूतान्यब्यक्तादिस्थावरान्ताः पास्मन्नात्मनि सुपा सुलगिति लुगधिष्ठानरूप एवानु गुरुपदेशान-