पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रामचन्द्रपण्डितकृता- ।-

जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा स्वात्मानं प्रकटी करोतीति भगवत्पादैरुक्तत्वात् । एकम-द्वितीयम् । एकमेवाद्वितीयं ब्रह्मेति श्रुतेः । अथवैकं सर्वदैकरूपं वृद्ध्यपक्षयविपरिणामशून्यं मनसो जवीयः संकल्पलक्षणादतिचञ्चलान्मनसोऽपि जवीयो वेगवत्तरम् । अपाणिपादो जवनो ग्रहीतेतिश्रुतेः । देहस्थस्यापि मनसः क्षणाद्वह्मलोकगमने व्यापकत्वात्तत्र पूर्वगतमि- वास्ति । परं त्वचिन्त्यत्वान्मनसा प्राप्तुमुमशक्यं न तु चक्षुरादिविषयवन्मनसा साक्षादनाप्यं यत एनदात्मस्वरूपं देवा द्योतनात्मकानि चक्षुरादीन्द्रियाणि नाऽऽप्नुवन्न प्राप्तवन्तः । अव्यपदेश्यत्वादिन्द्रियगोचरमित्यर्थः । अथवा मनोव्यापारपूर्वकत्वादिन्द्रियप्रवृत्तेर्यन्मनसोऽगोचरं तदिन्द्रियाणां सुतरामगोचरम् । यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धीत्यादिना मनःप्राणेन्द्रियाप्राप्यत्वस्य केनोपनिषद्युक्तत्वात् । पूर्वमनादि जन्मरहितमर्शत् । रिश हिंसायामित्यस्य शत्रन्तस्य रूपं न रिशदविनाशि धातोरिकारलोपश्छान्दुसः । तदादिमध्यान्तविहीनमेकमिति श्रुतेः । तद्बह्म तिष्ठद्यापकत्वेन सर्वत्र स्थितिमत्सद्धावतो द्रुतं गच्छतोऽन्यान्कालवाय्वादीनत्येत्यतिक्रम्य गच्छतव तेषां गत्याऽप्राप्यमित्यर्थः । आसीनो दूरं व्रजति शयानो याति सर्वत इति श्रुतेः । मातरिश्वा देहान्तर्गता वायुस्तस्मिन्देहान्तर्विद्यमाने सत्यप आप्यन्ते प्राणादिसंज्ञा याभिस्ता आप आप्रोतेर्हस्वश्चेति करणे क्किप्ताः क्रियाः प्राणनादिचेष्टा दधाति धारयति । अथवा सभिष्टयजुपि वातेधा इति सर्वकर्मणां वायुस्थत्वोक्तेरपः श्रद्धा वा आप इति श्रुतेः श्रद्धाजन्यवादापः कर्माणि स्वस्थान तानि वायुस्तत्र ब्रह्माणि दधाति स्थापयति कर्मणां परमं निधानमित्यर्थः । अथवा तत्रान्तर्यामिण सति वायुः सूत्रात्मा तपनवारिदादीनां कर्माणि तपनवर्षणादीनि । वायुना हि गौतम सत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः क्रियाशक्तिमत्वाद्दधाति विभज्य धारयति । अन्तर्यामि- तया तस्यैव सर्वेशत्वादन्तर्यामिबाह्मणे सर्वान्तर्यामित्वेन यः पृथिव्यां तिष्ठन्नित्यादिना तस्यैव सर्वनियामकत्वोक्तेर्मीषाऽस्माद्वातः पवत इत्यादितैत्तिरीयश्रुतेश्च स वा अयमात्मा सवस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंचेति स सेतुर्विधरण एषां लोका. नामसंभेदायेति शारीरबाह्मण उक्तत्वाञ्चाचिन्त्यमव्यपदेश्यं पडूभाववि-