पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यम् ।

ग्राथतिथ्यत एवायं कर्तव्यार्थान्स्वयं प्रभुः । शीवतीभ्यः समाभ्यश्च प्रजापतिभ्य एव हि ॥ १३ ।। प्रजाभ्यश्च विभज्यैव दत्तवान्परमेश्वरः । तदेवं परमात्मानं नित्यमुक्तस्वभावकम् ॥ १४ ॥ सोऽहमस्मीति विज्ञाय मुक्त एव भवत्ययम् । इत्येवमष्टमो मन्त्रः सम्यगर्थनिरूपकः ॥ १५ ॥ समाप्तः सर्वगो ह्यात्मा नित्यं सर्वस्वभावकः । सोऽहमस्मीति विज्ञाय मुच्यते सर्वतोमयात् ॥ १६ ॥

॥ इत्यष्टमो मन्त्रो व्याख्यातः ॥

संन्यस्य सर्वकर्माणि ज्ञातव्यः परमेश्वरः । इति प्रथमो वेदार्थः सम्यगेव प्रदर्शितः ॥ १ ॥ अग्निहोत्रादिकर्माणि तवशक्तेने सर्वदा । कर्तव्यानि द्वितीयोऽपि वेदार्थोऽयं प्रदर्शितः ॥ २ ॥ विरोधं दर्शयित्वा तु तयोरेध हि मन्त्रयोः । बृहदारण्यके शास्त्रे व्यवहारोऽपि दर्शितः ॥ ३ ॥ कामुकस्य तु संसारो निष्कामस्य परा गतिः । इति प्रचुर्शनार्थस्तु नवमोऽयं प्रथर्तते ॥ ४ ॥ अन्धं मूढे तमो यान्ति ये मयि समुपासते । विरक्ता अपि संसारा नैष्काम्यं वै विदुर्नराः ॥ ५ ॥ असंभूसिववसाऽत्र मायातत्वं प्रकथ्यते ।। मायातत्वातु संसारो जायते सर्वदेहिमाम् ॥ ६ ॥ मूयः पुनस्तमो यान्ति संभूत्यां ये रती नराः । संमवनं च संभूतिर्लिङ्ग सप्तदशात्मकम् ॥ ७ ॥ मायावीजस्य कार्य तत्सूत्रात्मानं प्रचक्षते ।। कार्यकारणमिमुक्त ज्ञात्वाऽऽरमानं विमुच्यते ॥ ८॥ नवमोऽपि समाप्तोऽयं संक्षेपार्थप्रदर्शकः । समुच्चयचिकीर्षार्थ दशमोऽपि प्रवर्तते ॥ ९ ॥

इति नवमो मन्त्रो व्याख्यातः ॥

संभवादन्यदेबाऽऽहुः फल कार्यस्य चिन्तनात् । कारणाद्वीजरुपस्य चिन्तनादन्यदेव हि ॥ १ ॥