पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यम् ।

अविद्याकार्यनिर्मुक्ते संविटूपे परात्मनि । शोकमोहादिसंबन्धः कथं ब्रह्मणि माध्यते ॥ ६ ॥ इत्ययं सप्तमो मन्त्रः स्वरुपप्रतिपादकः ।। सोऽहमस्मि स एवाहं बल्लेवास्मीति वाक्यतः ॥ ७ ॥ ॥ इति सप्तमो मन्त्रो व्याख्यातः ॥ ब्रहोऽऽत्मा सकलं विश्वं तस्मिन्विश्वं प्रतिष्ठितम् । जीवाज्ञानवशादेव चाष्टमोऽयं प्रवर्तते ॥ १ ॥ आत्मानं सर्वगं शुद्धं निरूपयितुमच्जासा ।। अप्रोति सकलं कार्यं तस्मादात्मेति गीयते ॥ २॥ स पर्यगात्परो ह्यात्मा सर्वं व्याप्य व्यवस्थितः । यञ्च किंचिजगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥ ३ ॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।। इति मन्त्रों यतः शास्ति तस्माद्भेदों न विद्यते ॥ ४ ॥ निर्विभागः स्वयंज्योतिरात्मैव सकलं जगत् । शुक्लज्योतिःस्वभावोऽयं नित्यचिन्मात्रविग्रहः ॥ ५ ॥ लिङ्गदेहविनिर्मुक्तः सर्वभूतगुहाशयः । एकीभूतः स्वयं चाऽऽत्मा सर्वं व्याप्य प्रतिष्ठितः ॥ ६ ॥ तमात्मानं परं शान्तं देहत्रयविवर्जितम् । निरिन्द्रियं परं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ७ ॥ मायापाशविनिर्मुक्तं धर्माधर्मविवर्जितम् ।। मनसोऽपि नियन्तारं सर्वसाक्षिणमव्ययम् ॥८॥ उपर्युपरि सर्वेषां भवितारं स्वयंभुवम् ।। विभुं सर्वात्मकं ज्ञात्वा मुक्त एव भवत्यस ॥ ९ ॥ अथ वा स परी देवः सर्वव्यापी निरञ्जनः ।।

र्वगः सकलं व्याप्य स्वयमेव व्यवस्थितः ॥ १० ॥ व्यवहारेऽपि शुद्धोऽसौ वृहद्वयविवर्जितः ।।

बीजधर्मविनिर्मुक्तो नियन्ता सर्वदेहिनाम् ॥ ११ ॥ परिमषति कार्याणि परिभूः स्वयमेव हि ।

स्वातन्त्र्येण भवतीति स्वयंभूः पारविश्वदृछू ॥ १२ ॥


। , १ . °स्मस । १ क, ग, शुकं ज्य° ।}}