वैश्वातीतं परं ब्रह्म विश्वस्याभ्यन्तरे स्थितम् । गरुप सर्वगं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ ८॥ इति पञ्चमन्त्रोऽयं समासेन निरूपितः । मायातीतं परं शुद्धं रहस्यं च प्रकीर्तितम् ॥ ९ ॥
इति पञ्चमो मन्त्रो व्याख्यातः ॥
तद्बह्म परमं शुद्धं कर्मणा नैव लभ्यते । कर्मत्यागी परं ब्रह्म प्राप्य सम्यक्पमुच्यते ॥ १ ॥ कर्मणा लभ्यते ब्रह्म ज्ञानानैव तदाप्यते । इति मीमांसकाः प्राहुस्तेषां पक्षो निरस्यते ॥ २ ॥ यस्तु सर्वाणि भूतानि परिव्रास्वयमेव हि । तानि सर्वाणि भूतानि स्वस्मिन्नेव प्रपश्यति ॥ ३ ॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतगुहाशयम् । तस्मादेव तु विज्ञानान्न चैव विचिकित्सति ॥ ४ ॥ स्वस्वरूपपरिज्ञानात्संदेहं न करोत्ययम् । माध्यंदिनस्य पाठे तु व्याख्याने परिकीर्तितम् ॥ ५ ॥ घृणा या जुगुप्सा वा जायते भेददर्शिनः ।। न तु निर्भेदमद्वैतमात्मैकत्वं प्रपश्यतः ॥ ६ ॥ इति षष्ठोऽपि मन्त्रोऽयं समासेन मयोदितः । अनेन प्रीयतां देवः सर्वभूतगुहाशयः ॥ ७ ॥
॥ इति षष्ठो मन्त्रों व्याख्यातः ।।
परिवाडेव तद्वेत्ति स्वात्मानं प्रकृतेः परम् । इति प्रदर्शनार्थं तु सप्तमोऽयं प्रवर्तते ॥ १ ॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम् ।। इति शङ्कानिवृत्त्यर्थं तुशब्दोऽयं प्रवर्तते ॥ २॥ यस्मिन्बह्मस्वरूपे तु निर्विकल्पे परेऽव्यये ।। सवण्यात्मैव संवृत्तं ब्रह्मतत्त्वं विजानतः ॥ ३ ॥ ब्रह्मैव सकलं विश्वमहमस्मीति तत्पदम् । पद्यते गम्यते नित्यं स्वस्वरूप स्वयंप्रभम् ॥ ४ ॥ शोकमोहादिसंबन्धस्तस्मिन्नैव तु विद्यते । अप्राणों ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ५ ॥
- -- -- - - -- --
१ ग. °र्मठेर्न च छ ।