पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्य्र्र्हस्यम्-

अमेजत्परमं तत्वं स्वतश्चलनवर्जितम् । एजू कम्पन इति च धात्वर्थोऽपि तथाविधः ॥२॥ अचलं सत्परं ब्रह्म नित्यमुक्तस्वमायकम्। ' एकमेवाद्वितीयं च सत्यज्ञानस्वरूपकम् ॥ ३॥ संकल्पलक्षणाञ्चास्मान्मनसो वेगवत्तरम्। मैनत्तत्वं प्राप्तवन्तो देवा ये सक्षुरादयः ॥ ५ ॥ पूर्वमेव हि संव्याप्त व्योमवभिर्मलं परम् । तद्धावतोऽन्यान्वेगेन सर्वान्च्यायैव तिष्ठति ॥ ५॥ तस्मिस्तिष्ठति पूर्णेऽस्मिन्परे ब्रह्मणि केवले । अपः कर्माणि सर्वाणि मातरिश्वा दधाति च ॥ ६ ॥ अन्तरिक्ष स्वयं याति सूत्रात्मा पवनः स्वयम् । कर्म चैतत्फलं चैव धारयत्येव सर्वदा ॥ ७ ॥ इति संक्षेपतो मम्वश्चतुर्थोऽपि समापितः ।। प्रसीदतु परो देवः सर्वभूतगुहाशयः ॥ ८॥

॥इति चतुर्थो मम्रो व्याख्यातः ॥

म मन्त्राणां जामितादिदोषः कश्चन वियते । उक्तमेव वदत्यर्थं ब्रह्मतत्वप्रकाशकम् ॥ १ ॥ दुर्विज्ञेयं परं ब्रह्म सत्यज्ञानमनन्तकम् । निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनम् ॥ २॥ अमृतस्य पर सेतुं दुग्धेन्धनमिवानलम् ।। इति वाक्यं यतः शास्ति ब्रह्म सत्यं पुनातु माम् ॥ ३ ॥ तदेजति पर बम ब्रह्मविष्णुशिवात्मकम् ।। साकारं मायया माति निराकारं तु वास्तवम् ॥ ४ ॥ उपाधिचलनेनैव चलनं तु विमाव्यते । तन्नैजति परं ब्रह्म निर्गुणं प्रकृतेः पस्म् ॥५॥ तञ्च दूरे परं ब्रह्म सर्वदेवाविवेकिनाम् । अप्राप्यत्वात्परं ब्रह्म वर्षकोटिशतैरपि ॥ ६ ॥ तदेव ह्यन्तिके ब्रह्म स्वात्मरूपं विवेकिनाम् । तद्वाह्याभ्यन्तरे ब्रह्म कार्यकारणवस्तुनः ॥ ७ ॥


१ ग, क्षे श्वसतीति । १ ख, स्वपित्तीति । ३ घ, भिकर्ष नि।