पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यम्- ।

॥ इत्येको मन्त्री व्याख्यातः ॥


सर्वकर्माणि संन्यस्य मन्तव्यः परमेश्वरः । सदशक्तस्य कर्माणि कर्तव्यानि श्रुतिर्जगौ ॥ १॥ अग्निहोत्रादिकर्माणि व्यवहारान्सद नरः ।। कुर्वञ्जीवितुमिच्छेद्वै शतं संवत्सरान्स्वयम् ॥ २ ॥ तावद्धि पुरुषस्याऽऽयुः शतायुरिति च श्रुतेः । एवंप्रकारे तु व्वयि नरमात्राभिमानिनि ॥ ३ ॥ प्रकारान्तरं नैवास्ति ने कर्म लिप्यते था। ईश्वरार्पणबुद्धया तु कर्म कुर्वन्न लिप्यते ॥ ४ ॥ प्रसीदति परो ह्यारमा शुद्धान्तःकरणे स्वयम् ।। इति द्वितीयमन्त्रार्थः सम्यगेव निरूपितः ।।५।।

॥ इति द्वितीय मन्त्रो व्याख्यातः ॥

अविवेकातु संसारो विवेकानैव विद्यते । अविवेकनिवृत्यर्थ मन्त्रोऽयं संप्रवर्तते ॥ १ ॥ आत्मज्ञानमुपेक्ष्याथ देवा ये भोगलम्पटाः । असुरा एव ते ज्ञेया आत्मधर्मबहिष्कृताः ॥ २॥ येऽन्यथा सन्तमात्मानमकर्तारं स्वयंप्रभम् । कर्ता मोक्तेति मन्यन्तै त एवाऽऽत्महनो जनाः ॥ ३॥ स्वात्मनः स्वस्वरूपस्य तिरस्करणहेतुतः ।। अदर्शनात्मकेनैव चान्धेन तमसाऽऽवृताः ॥ ४ ॥ प्रेत्य देहं परित्यज्य संसरन्ति पुनः पुनः । ये के च परमात्मानं न जानन्ति परात्परम् ॥ ५ ॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन, न कृतं पापं चौरेणाऽऽत्मापहारिणी ॥ ६ ॥ इति वाक्यं श्रुतिः शास्ति सत्यमेतन्न संशयः । अपि गच्छन्ति पाठे तु ज्ञानाभावे न चान्यथा ॥ ७ ॥ तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् । स्वात्मानं परमं ज्ञात्वा मुच्यते जन्मबन्धनात् ।। ८ ।।

॥इति तृतीयो मन्त्रो व्याख्यातः ॥ कीदृशं तत्परं तत्त्वं पूर्वमन्त्रेण कीर्तितम् । तदर्थप्रतिपत्यर्थं चतुर्थोऽयं प्रवर्तते ॥ १ ॥