पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ ब्रह्मानन्दकृतमीशावास्यरहस्यम् ॥

ॐ येनाऽऽत्मना परेणेशा व्याप्त विश्वं चराचरम् । सत्यज्ञानस्वरूपेण तदेवाहं सदात्मकम् ॥ १ ॥

ईशावास्यादयो मन्त्रा न कर्मप्रतिपादकाः ।। अखण्डैकरसे शुद्धे ब्रह्मण्येव समन्विताः ॥२॥

कर्मसंबोधका वेदा न च ते ब्रह्मबोधकाः ।। इति मीमांसकाः प्राहुस्तन्न सत्य कथंचन ॥ ३ ॥

अकर्मशेषमात्मानं निर्गुणं प्रकृतेः परम् । अशरीरं सदा मुक्तं नित्यं शुद्धस्वभावकम् ॥ ४ ॥

सत्यं ज्ञानमनन्तं च निष्कलं निष्क्रिय ध्रुवम् ।। बोधयन्ति यतः सत्यं सर्वे वेदाः षडङ्गकाः ॥ ५ ॥

अत एव हि ते मन्त्रा ब्रह्मतत्वप्रबोधकाः । ईशा ईशेन संव्याप्तं त्रैलोक्यं सचराचरम् ॥ ६ ॥

वासितं भुवनं सर्वं सत्यमेवं श्रुतिर्जगी । यत्किंचित्सर्वमेवेदं जगत्यामुपलक्षणम् ॥ ७ ॥

जगद्वह्मैव परमं ब्रह्मैवेदमिति श्रुतेः । यस्माद्ब्रह्मात्मकं सर्वं तस्मात्यक्तेन सर्वदा ॥ ८॥

पालयेथाः स्वमात्मानं स्वस्वरूप निरञ्जनम् ।। त्यागशब्देन चाप्यत्र संन्यासः परिकीर्तितः ॥ ९ ॥

संन्यस्य सर्वकर्माणि बल्लेवास्मीति भावयन् । क्षणीयः स्वयं चाऽऽत्मा संसारादज्ञकल्पितात् ॥ १० ॥

आत्मैवेदं जगत्सर्वं धनं नैवास्ति कस्यचित् । गृधिं वै धनविषय मा कार्षीस्त्वं कथंचन ॥ ११ ॥

स्विदित्यनर्थको वाऽत्र चाऽऽक्षेपो वा भविष्यति । आत्ममिन्नं परं स्वं किं कस्यचिद्विद्यते धनम् ॥ १२ ॥

सुगन्धचन्दनेनैव दुर्गन्धछाद्यते यथा । नामरूपात्मक विश्वमात्मनाऽऽच्छादित तथा ॥ १३ ॥

तस्मादात्मैव द्रष्टव्यः श्रोतव्यः सर्वदैव हि । इत्येष एव वेदार्थः प्रथमो वै निरूपितः ॥ १४ ॥