पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यम् ।

इत्याहुर्वेदविद्वांसः फलभेदं विपक्षः । श्रुतवन्तो वयं पूर्वमाचार्याणां महात्मनाम् ॥ २ ॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवस्तत्त्वदर्शिनः ।... तेषामेव हि तद्वाक्य फलभेदप्रदर्शकम् ॥ ३॥ मतिभेदात्तु भेदोऽयं दर्शितो न तु वस्तुतः । धीराणां परमं वाक्यं ब्रह्मतत्त्वप्रदर्शकम् ॥ ४ ॥ सत्यं ज्ञानमनन्तं च ब्रहौव परमं ध्रुवम् । इत्थं दशममन्त्रोऽपि समासेन समाषेतः ॥ ५ ॥

  इति दशमो मन्त्रो व्याख्यासः ॥

संभूतिं कार्यरूपं च विनाशं कारणात्मकम् । एकादशोऽपि मन्त्रोऽयं तयोरेकत्वदर्शकः ॥ १ ॥ कार्यकारणयोरैक्यं यो वेद सततं नरः ।। विनाशेन मृत्यु तीर्त्वा संभूत्याऽमृतमश्नुते ॥ २ ॥ यस्मिन्विनश्यति कार्यं विनाशं कारणं परम् । मायाबीजं च तत्प्रोक्तं चैतन्यकवलीकृतम् ।। ३ ॥ तयोपासनया मृत्युं तीर्त्वा स्वाभाविकं तमः ।। हिरण्यगर्भोपासनया संभूत्या मुच्यते बुधः ॥ ४ ॥ आत्मविद्यावधिः सोऽथ परं कारणमुच्यते । साक्षी चेता जगद्वीजमन्तर्यामीति च श्रुतौ ॥ ५ ॥ कार्यकारणरूपं च ब्रह्मेव केवलं शिवम् ।। कार्यकारणनिर्मुक्तं परं ज्ञात्वा विमुच्यते ॥ ६ ॥ इत्येकादशमन्त्रोऽपि समाप्तस्तत्त्वबोधकः । ब्रह्मैव परमं शुद्धं बझैवाहं सदद्वयम् ॥७॥

| ॥ इत्येकाश मन्त्रो व्याख्यातः ॥

कर्मणा बध्यते जन्तुविद्यया च विमुच्यते । इति प्रदर्शनार्थे तु द्वादशोऽयं प्रवर्तते ॥ १ ॥ अन्धं मूढे तमो यान्ति केवलं कर्मचिन्तकाः । देवतोपासका ये च तेऽपि यान्ति पुनस्तमः ॥ २ ॥ एकैकोपासनां भिन्नां निन्दयित्वा पुनः पुनः ।। एकेनैव द्वयं सेव्यं श्रुतिराह पुनः स्वयम् ॥ ३ ॥


१ ख, सदाऽ६°।