पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उवटार्यकृतम्-

तपसा श्रद्धया यज्ञेनानाशकेन चेति । विविदिन्ति वेदितुमिच्छन्ति ।अनेनैतद्दर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥  इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्द्यन्तेअसुर्या नाम । असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुराणां स्वभूता एवं संज्ञकास्ते लोकाः । अन्धेन तमसाऽज्ञानलक्षणेन तमसाऽऽवृताः संवृतास्ताल्लोकांस्ते जनाः प्रेत्य मृत्वाऽपि गच्छन्ति । ये के चाऽऽत्महनों जनाः । ये जना आत्मानं निघ्नन्ति ये स्वर्गप्राप्तिहेतु भूतानि हि नूनं कर्माणि कुर्वन्ति ते हि जनित्वा म्रियन्ते मृत्वा जायन्त एवं महतीं विनष्टं प्राप्नुवन्ति ॥ ३ ॥

  इदानीं यमनियमवतां मुमुसक्षू यथाभूतं परं ब्रह्म, आत्मत्वेनोपास्ये तदाह-उक्तं च-'अहं ब्रह्मास्मि संबुध्य इदं सर्वं च मन्मयम् । मयि विद्या समुद्दिष्टा विमुक्तिर्यन्निबन्धनी' इति ।अनेजदेकम् । त्रिष्टुब्यदनेजदचलत्त:त्वमस्ति एकमद्वितीयं विज्ञानघनरूपेण मनसो जवीयः । मनस्तावच्छीघे भवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् ।नचैतत्तत्वं देवा अपि प्राप्तुं शक्ताः सूक्ष्मत्वात् । पूर्वमर्शत् । रिशतिहिंसाकर्मा पूर्वं पूर्वमपि विद्यमानं सदर्शद्विशतीति रिशन्न रिशदर्शत् । धातोरिकारलो पश्छन्दसः । इकारलोपे कृतेऽर्शद्भवत्यविनश्यदास्तेऽनादिनिधनमित्यर्थः।तद्धावतस्तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतोऽन्यान्पुरुषादीनत्येत्यतिक्रम्य गच्छति तथा तिष्ठत्सर्वत्र स्थितं सर्वगतत्वं सर्वशक्तित्वमनेन व्याख्यायते । तस्मिन्नपः । यस्मिंश्चापः कर्माणि मातरिश्वा वायुद्धाति स्थापयति सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजुषि वायौ स्थाप्यन्ते स्वाहा वातेधा इति वायुप्रतिष्ठत्वाभिधानात् । समष्टिव्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति यागहोमदानानां परमं निधानमित्यर्थः ॥ ४ ॥

एवं कारणरूपमात्मानमुद्दिश्याथेदानीं कार्यरूपेणोद्दिशति-तदेजति ।अनुष्टुभस्तिस्रः । तदेव सर्वरूपेणावस्थितं सदेजति कम्पवद्भवति क्रियावद्भवति तदेव नैजति न चलति स्थावररूपावस्थितं तद्दूरे तदेव दूर आदित्यनक्षत्रादिरूपेण । तद्वन्तिके तदेव चान्तिके पृथिव्यादिरूपेण सर्वं खल्विदं ब्रह्मेत्येतदर्शनार्थी ग्रन्थः । तदन्तरस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणान्तर्मध्यत आस्ते तदु सर्वस्यास्य बाह्यतः । तदेव


१ क, °म् । इति वि°।