पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ अर्थशावास्यभाष्यमुवटार्यकृतम् ॥

ॐ। समाप्तं कर्मकाण्डे ज्ञानकाण्डमिदानीं प्रस्तूयते । ईशा वास्यं तिस्रोऽनुष्टुभः । दध्यङङथर्वण ऋषिः स्वं शिष्यं पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्त्यनुष्ठितय- ज्ञमपापं निःस्पृह यमनियमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसनंशिक्षयन्नाह-ईशा वास्यमिददं सर्वमिति । ईश ऐश्वर्ये किपि तृतीयान्तस्यैतदूपं यदीशाऽनेन वास्यं वासनीयं ममेदमित्यनया भावनयाऽऽच्छादनीयमिदं सर्वमिति प्रत्यक्षतो निर्दिशति यत्किंच यत्किंचशब्दो भिन्नक्रमः किंच यजगत्यां पृथिव्यां जगज्जङ्गमादि स्वस्वामिसंबन्धलिङ्गिते स्यात्तेनानेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भोगान्भुञ्जीथा अनुमवेः । मा गृधः । गृधु अभिकाङ्क्षायामिति माऽभिकाङ्क्षय मा कृथा ममेदमिति । किं कारणं कस्य स्विद्धनं स्विदिति निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यर्थ इत्यभिप्रायः ।सर्वाण्ययथार्थानि हि द्व्याण्युत्पद्यन्ते । तद्यथा स्त्रियं पतिरन्यथा भुङ्क्तेऽन्यथा पुत्रोऽन्यथा प्राघूर्णकः । तथा च कटककेयूरकुण्डलादीन्यलंकरणान्यन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यः स्वस्वाभिसंबन्धो ममेदमिति बुद्धिः सा त्वविद्या । निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ।। १ ॥

निस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाहकुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानीह लोके जिजीविषेजिजीविषे.रिति पुरुषव्यत्ययः प्रत्येक्षकृतत्वान्मन्त्रस्य जीवितुमिच्छेः पथ्यहितमितभक्षणेन शतं समा इत्युपलक्षणार्थम् । एवं त्वये तवेति विभक्तिव्यत्ययः । मुक्तिरस्तीति शेषः । नान्यथेतोऽस्तीतः प्रकारादन्यथा सुक्तिर्नास्ति । एतदुक्तं भवति–यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावत्यर्थः । ननु कर्मणः फलेन भवितव्यम् । अथ कथं मुक्तेः प्राप्तिरित्येतदाशङ्कयाऽऽहने कर्म लिप्यते नरे । न हि मुक्त्यर्थकर्म क्रियमाणं नरे मनुष्ये संबध्यते मुक्तिदानेनोपक्षीणशक्तित्वात् ।तथा च बृहदारण्यकम् तमेत्तं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण


१ क, ‘वथ° । ३ क, प्राघुणिकः । ३ क. त्यक्ष कृत्वा मन्त्र” ।