पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
ईशावास्योपनिषत्-

ॐ क्रतो स्मर कृत५ स्मर क्रतो स्मर कृत स्मर ॥१७॥
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।


मार्गयाचनसामथ्र्थात् । अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयात् ।ओमिति यथोपासनमप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितोऽतः स्मरेतावन्तं कालं भावितं कृतमग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् ।। १७ ॥

 पुनरन्येन मन्त्रेण् मार्ग याचते--अग्ने नयेति । हेऽग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं द्क्षिणमार्गनिवृत्यर्थम्।निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनःर्गमनागमनवजितेन शोभनेन पथा नय । राये धनाय कर्मफलभोगायेत्यर्थः । अस्मान्यथोक्तधर्मफलविशिष्टान्विश्वानि सर्वाणि हे देव वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् । किं च युयोधि वियोजय विनाशयास्मदस्मतत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् ।ततो वयं विशुद्धाः सन्त इदं प्राप्स्याम इत्यमिप्रायः । किंतु वयमिदानीं ते न शक्नुम परिचर्यां कर्तुं भूयिष्ठां बहुतराम् । ते तुभ्यं नमःउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेमेत्यर्थः । अविद्ययामृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते । विनाशेन मृत्युं तीत्वा संभूत्याऽमृतमश्नुत इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निराकरणार्थं संक्षेपतो विचारणा करिष्यामः । तत्र तावत्किनिमित्तः संशय इत्युच्यते। विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यतेऽमृतत्वं च। ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः। सत्यम् । विरोधस्तुनावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाऽविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि । यथा च न हिंस्योत्सर्वा भूतानीति शास्त्राद्वगतं पुनः शास्त्रैणैव बाध्यतेऽ.


० टी०मन्त्रान्पदशो व्याख्याय संक्षेपता विचारमारभते -अविद्यया मृत्यु तीर्त्वेत्यादिना । अमृतत्वं चेति । अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति संबन्धः। शास्त्रीययोर्ज्ञानकर्मणाविरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोके


१ घ. इ. च, छ. ठ °कम” । २ ग. ब्रह्मव ओवित्युच्य। । क. अ. ग. “मग्र स्म' । । ३ . ग. म ट. °स्तभिर्धार° । ५ ६. ब. ट . °स्यात्सर्वभू° । एतदन्यपुस्तकेषु सर्वा, इत्येव पाठो दृश्यते । अतः सघणीत्यर्थक सर्वा, इतिपदघटितवक्यस्य श्रुतिस्थत्वमनुमीयते ।