पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
सटीकभाष्योपेता।

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ।।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ
पुरुषः सोऽहमस्मि ॥ १६ ॥ वायुरनिलममृतमथेदं
भस्मान्तः शरीरम् ।


भा० भा० धर्माय तव सत्यस्योपासनात्सत्यं धर्मों यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यमथवा यथाभूतस्य धर्मस्यानुष्ठात्रे हृष्टये तव सस्यास्मन उपलब्धये ॥ १५ ॥ पूषन्निति । हे पूषन् । जगतः पोषणात्पूषा रविस्तथैक एवं ऋषति गच्छतीत्येकर्षिः । हे एकर्षे । तथा सर्वस्य संयमनाद्यमः । हे यम ।तथा रश्मीनां प्राणानां रसानां च स्वीकरणोत्सूर्यः । है सूर्य । प्रजापतेरपत्यं प्राजापत्यः । हे प्राजापत्य । व्यूह विगमय रश्मीन्स्वान् ।समूह, एकी कुरु, उपसहर ते तेजस्तापकं ज्योतिः । यत्ते तव रूपंकल्याणतममत्यन्तशोभनं तसे तवाऽऽत्मनः प्रसादास्पश्यामि । किंचाही न तु त्वां मृत्यवयाचे योऽसावादित्यमण्डलस्थो व्याहृत्यवषवेः पुरुषः पुरुषाकारत्वात्पू वाऽनेन प्राणबुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सोऽहमस्मि भवामि ॥ १६ ॥

 वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेद हित्वाऽधिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रास्मानं प्रतिपद्यता: मिति वाक्यशेषः । लिङ्ग चेदं ज्ञानकर्मसंस्कृतमुस्कामत्विति द्रष्टव्यम् ।


आ० टी० मुत्तरग्रन्थस्य संबन्धाभिधित्सयाऽर्थविशेषमनुवदति-तत्र निषेकादीत्या दिना । तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामुतत्वं फलमि- स्युक्तमस्माभिरिति ॥ १५ ॥ व्याहृत्यवयव इति । तस्य भूरिति शिरः मुवै ईति बाहुः सुषरिति प्रतिष्ठा पादावित्यर्थः ॥ १६ ॥ १७ ॥


१ च सत्यधर्मस्तस्मै । यद्यप्यवमेव पाठे। मूलानुसारेण समीचीन इति भाति तथाऽपि चव्य- तिरिक्त पुस्तकेषु सत्यधम तस्मै, इत्येव पाठ उपलब्धः । अतः स एव शंकराचायभिप्रेत इति गम्यते । कुत इति चेदुच्यते-मुले सत्यधर्मायेति पदं वर्तते तत्तु भाषायां वैयकिरणरीत्या न सिध्यति किं तर्हि धर्मादनिकेवलादिति पाणिनिसूत्रेण समासान्तानिच्प्रत्यवेन भाष्यं तथा च सत्य धर्मण इति स्यादत आचार्यः सत्यधमा येत्यस्याऽऽर्षत्व प्रदर्शनार्थ भोध्येऽनिजन्तसत्यधर्मशब्दरचे प्रथमैकवचनस्य प्रदर्शितत्वादिति ज्ञेयम् । २ ज°बः परोक्षोऽसौ शास्त्रदृष्टया प्रत्यक्षः पु° ।। वरिति बाहुः सु” ।