पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
ईशावास्योपनिषत्-

संभूतं च विनाशं च यस्तद्वेदोभय५ सह ।
विनाशेन मृत्यु ती संभूत्याऽमृतमश्नुते ॥ १४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥


मा० यत एवमतः समुच्चयः संमूत्यसंभूत्युपासनयोर्युक्त एवैकपुरुषार्थत्वाञ्चत्याह-संभूतिं च बिनाशं च यस्तद्वेदोमय५ सह । विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाऽभेदेनोच्यते विनाश इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्यु तीर्त्वा हिरण्यगर्मोपासनेन ह्यणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युम- तीत्यासंभूत्याऽव्याकृतोपासनयाऽमृतं प्रकृतिलयलक्षणमश्नुते । संभूतिं च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्वष्टव्यः । प्रकृतिलयफलश्रुत्य: नुरोधात् ।। १४ ।।

 मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् । एतावती संसारगतिः । अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्ममाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिल- क्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधि- प्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवग्र्यन्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊध्र्वं बृहदारण्यकमुपयुक्तं तत्र निषेकादिश्मशानान्तं कर्म कुर्वञ्जिजीविधेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं विद्यां चाविद्यां च यस्तद्वेदोमय* सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति । तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते--तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष एतदुभयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकृञ्च यः सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते हिरण्मयेन पात्रेण । हिरण्मयमिव हिरण्मयं ज्योतिर्मयमित्ये तत् । तेन पात्रेणेवापिधानभूतेन सत्यस्यैवाऽऽदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितमाच्छादितं मुखं द्वारं तत्त्वे हे पूषन्नपावृण्वपसारय सत्य-


० टी० विस्तरेणोक्तमर्थनातं संक्षिप्योपसंहरति-मानुषदैववित्तसाध्यमित्यादिना । शरीरपाटवं गोभूहिरण्यादिसाधनसंपत्तिश्च मानुषं वित्तम् । दैवं वित्तं देवताज्ञान-