पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
सटीकभाष्योपेता।

अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते ॥ ११ ॥
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।।
ततो भूय इव ते तमो य उ संभूत्या५ रताः ॥ १२ ॥
अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् ।।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥


शा० भा० सकेन पुरुषेणानुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवैकपुरुषा- र्थसंबन्धः क्रमेण स्यादित्युच्यते-अविद्यया कर्मणाऽग्निहोत्रा दिना मृत्यु स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयं तत्वऽति- क्रम्य विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति । तद्धयमृतमुच्यते यद्देवतात्मगमनम् ॥ ११ ॥

अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दो च्यते-अन्धं तमः प्रविशन्ति येऽसंभूतिं संभवनं संभूतिः सा यस्य कार्यस्य सा संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः कारणमविद्याऽव्याकृताख्या तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्या कामकर्मबीजभूताम: दर्शनामिकामुपासते ये ते तदनुरूपभेवान्धं तमोऽदर्शनात्मक प्रवि शन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति य उ संभूत्या कार्यबह्मणि हिरण्यगर्भाये रताः ॥ १२॥

अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह-अन्य-देवेति । अन्यदेव पृथगेवाऽऽहुः फलं संमवात्संभूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः । तथा चान्यदाहुर संभवादसंभूतेरत्याकृतदिव्याकृतोपासनाद्यदुक्तमन्धं तमः प्रविशन्तीति प्रकृतिलय इति च पौराणिकैरुच्यत इत्येवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ।।१३


० टी० चित्तन्त्रा माया परमेश्वरस्योपाधिः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरः मित्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासंभूतिशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षा• प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्यमानताऽप्युपपद्यते ।फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुयोद्यमेव ॥ १२ ॥ १३ ॥१४॥


१ क, ख. °तितत्वा " ।