पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
ईशावास्योपनिषत्-

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
विद्यां चावियां च यस्तद्वेदोभय सह ।


श० भा० न्धित्वेनोपन्यस्तं न परमात्मज्ञानम् । विद्यया देवलोक इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिची पया न निन्दापरैवैककस्य पृथक्फलश्रवणात् । विद्यया तदारोहन्ति ।विद्यया देवलोकः । न तत्र दक्षिणा यन्ति । कर्मणा पितृलोक इति ।नहि शास्त्रविहितं किंचिदकर्तव्यतामियात् । तत्रान्धं तमोऽदर्शनात्मकं तमः प्रविशन्ति । के । येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततःस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के, कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञान एव रता अभिरताः।तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवफलवतोः संनिहितयोरङ्गाङ्गितैव स्यादित्यर्थः ॥ ९ ॥  अन्यदेवेत्यादि । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहूर्वदन्ति विद्यया देवलोको विद्यया तारोहन्तीतिश्रुतेः । अन्यदाहुर-विद्यया कर्मणा क्रियते कर्मणा पितृलोक इति श्रुतेः । इत्येवं शुश्रुमश्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यंतत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पार- म्पयगत इत्यर्थः ॥ १० ॥ यत एवमतो विद्यां चाविद्यां च देवताज्ञानं कर्म चेन्यर्थः। यस्तदेतदुभय}}


० टी० रिक्तफलभावात्समुच्चयो न संभवतीत्यत आह–विद्ययेति । ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादवपर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वत्प्रहाणार्थेव निन्दा किं नेष्यते तत्राऽऽह-तयोर्ज्ञा- नकर्मणोरिति । न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फल. व्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ ९ ॥ १० ॥ ११ ॥


1 °विद्याया अन्य°। ३ °विद्यायाः । इ° । उवटभाष्यस्थाविमौ पाठौ । ३ अ. अ. ट. °गोवियाविरोधाभावान् । ग, घ, ङ, च, छ, ज, ठ, एतेष्विदं नास्त्येव । ४ क. स. कितयार अभि3°। ग .स. १. ट, फ्तिायां जामितै” । ५ ज. °त्वाकर्मणो निन्दा मुण्डकादिषु श्रूयते पदा ते अड्ढा यशपाः प्रहा।६ अ. °पि वाछितस°। = ==