पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
सटीकभाष्योपेता।

शा० भा० इत्यादिना । ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्योऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मना याथात्म्यं स पर्यगादित्येतद्- न्तैर्मन्त्रैरुपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणं मन्त्रोपनिषदि अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमित्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते-अन्धं तम इत्यादि । कथं पुनरेवमवगम्यते न तु सर्वेषामित्युच्यते-अकामिनः साध्यसाधनभेदोपमर्दैन यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति यदात्मैकत्वविज्ञानं तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीवति । इह तु समुच्चिचीषयाऽविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः संभवति न्यायतः शास्त्रतो वा तदिहोच्यते । यदैवं वित्तं देवताविषयं ज्ञानं कर्मसंब-


आ० टी०-दर्शयति-ये तु ज्ञाननिष्ठा इत्यादिना । अत्याश्रमिभ्य इति। उत्तमाश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमर्दैन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धैनोत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मातेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समुच्चिचीषयाऽविद्वदादिनिन्दा दृश्यते । ततः किमित्यत आह-तत्र च यस्येति । कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः संभवतीत्यत आह—यदैवं वित्तमिति । यच्चोक्तं भास्करणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वा तस्या एव समुच्चिचीपयान्द निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता संबध्यते किं तु संबन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दक त्वान्नास्ति कर्मसंवन्धयोग्यता । किंच यस्मिन्निप्पन्नेऽपि फलस्य व्यवधानं संभाव्यते तस्यैव सहकारिसमुच्चय इष्यते दशदेरिह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किंचास्या मन्त्रोपनिषदो ब्राह्मणे ब्राह्मणा विविदिषन्ति यज्ञेनेत्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रती- यते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया संबन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसंबन्धविधिस्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यन- पेक्षेतिसूत्रविरोधश्च समुच्चयश्च परेणापि नेष्यते । विरोधेने च परिजहे तस्मात्कर्माविरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलाक्ति


१ च. ते यथा द°। २ झ, °देरिवेह । ३ घ, ङ, ज, 5. किं च ब्राह्म गा वि । छ, अ. °४ अमीन्धनोपलक्षितकर्मसमस° । ५ ग, च, छ, ज, न चापाचके त° । छ, ठ, °न पार, कमे त”।