पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ईशावास्योपनिषत्-

शा० भा०विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् । गीतानां मोक्षधर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि ।


आ० टी० मात्मयाथात्म्यं तत्राऽऽह--सर्वासामिति । यत्परः शब्दः स शब्दार्थ इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदां शक्यं वक्तुम् । तथाहि ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुक्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासंकीर्तनात्को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासंकीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्दयैकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दधा[१]तीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभासापूर्वताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि बिकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते । किंच प्रत्ययसंवादोऽपि बलव[२]त्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्भविरोधे[३]नापलपनीयम् । यथेन्द्रियान्तरेणानवगम्यमानमपि रूपं चक्षुषाऽवगम्यमानं नाप[४]ह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह--गीतानामिति । 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व विनश्यन्तं यः पश्यति स पश्यति' इत्यादिगीतानाम् । 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः । यद्येतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येतेत्यपि नाऽऽशङ्कनीयमित्याह--तस्मादिति । औपनिषदात्मयाथात्म्यविज्ञानवत इप्यत एव कर्मकाण्डाप्रामाण्यम् । यथा न हिंस्यात्सर्वा [५]भूतानीति निषेधशास्त्रार्थनिश्चयवत इष्यत एव

श्येनादिविध्यप्रामाण्यम् । यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः । अत्र जैमिनिप्रभृतीनां संमतिमाह--यो हीत्यादिना । अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च


  1. क ख ०तीत्यभिधायिन्याश्चास्या० झ. ०तीतियुक्त्यभिधायिन्वाश्चात्या° ।
  2. क. ख.झ. ०वत्कार° ।
  3. क. ख. झ. ‘धेनोपलम्भनी° ।
  4. क. ख. ०पह्नुवते ।
  5. घ. ङ. सर्वभूतानीत्यत्र बहुपुस्तकेषु सर्वा भूतानीत्येव पाठो दृश्यते स श्रुतिमूलक इत्यनुमीयते सर्वां इति सर्वांणीत्यर्थकमेवऽऽर्षत्वादिति ज्ञेयम् ।