पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशावास्योपनिषत्सटीकभाष्योपेता ।


ॐ तत्सद्ब्रह्मणे नमः ।

॥ अथ शांकरभाष्यम् ॥

 ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याऽऽत्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चाऽऽत्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः । नह्येवंलक्षणमात्मनो याथात्म्यमुत्पाद्यं


॥ आनन्दगिरिटीका ॥

येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥ १ ॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषे त्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावाव्याख्येथा इति तान्प्रत्याह- ईशा वास्यमित्यादय इति । कर्मस्वविनियुक्ता इति । इषे त्वेति शाखां छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्चेत्यर्थः । श्रौतविनियोगाभावेऽपि बर्हिर्देवसदनं दामीत्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्बर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसाम[१]र्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह--तेषामिति । शु[२]द्धादिवि शेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मामुपयोगि किंतु कर्मणा विरुध्यते चेत्याह--याथात्म्यं चेति । शुद्धोऽहं स्वभाव[३]तो नाऽऽगन्तुकेनापि

पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किंत्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः । किंच यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति । तथाऽऽत्मयाथात्म्यं कर्तुं भोक्तृ च न भवति । येन ममेदं समीहितसाधनं ततो मया कर्तव्यमित्य[४]हंकारान्वयपुर सरः कर्त्रन्वयः स्यादित्याह--नह्येवमिति । ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शना[५]न्नास्त्येवैतादृश


  1. घ.ङ.छ.ज. ०मर्थ्यातत्र क०
  2. च. ज. शुद्धत्वादि०
  3. क. ख. झ. तो न तु के०
  4. घ. ङ. छ. ०त्यधिकारी
  5. क. ख. ग. ०नाम निरूप्यमेवैता०