पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
अलङ्कारसर्वस्वम्


यद्वा मृषा तिष्ठतु दैन्यमेतनेच्छन्ति वैरं मरुता किराताः
केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति


इति नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावक्षेपः। निषेधविधौ तस्य भावादित्युक्तवात् चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्यमानोऽपि भवति । यथा

'गणिकासु विधेयो न विश्वासो वल्लभ त्वया
किं किं न कुर्वतेनर्थमिमा धनपरायणाः ॥'


अत्र हि गणिकाया उक्तौ तदोषोक्तिप्रस्तावे नाहं गणिकेति प्रती- यते । न चासौ निषेध एव । गणिकात्वेनावस्थित(त]तयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वव्रया गणिकायाः शुद्ध- स्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेप- ध्वनिरयम् । न तु

'स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान्
यो' ऽम्बुकुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः


इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषेधा- भासस्य । गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वथेष्ट- निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम्


त्यादि । तस्यैत्याक्षेपस्य । तद्भावमात्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः प्रतीयत इति गम्यते नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम् । अ- न्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात् । तस्येहानुपक्रान्तत्वात् इत्थं च नि.- षेधाभासस्यैव गम्यत्वेऽयं ध्वन्यमानो भवति न निषेधमात्रस्यैवेति दर्शयितुमाह--न त्वित्यादि । अतश्च ध्वनिकृता यदेतदक्षेपध्वनावुदाहृतं तदयुक्तमेवेति भावः । एवं चास्य यथोपपादितं स्वरूपमुपसंहारभङ्गयापि प्रतिपादयति--सर्वथेत्यादिना । सर्वथे-


१. ‘योऽम्भःकणैः’ ख. २. ‘ज्ञातुं’ ख.


१. ‘भावस्यैव’ क. २. ‘आक्षेपादावुदाहृतं' क.