पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
काव्यमाला ।


एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह

अनिष्टविध्याभासश्च । यथेष्टस्येष्टत्वादेव निषधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते । तत्क्रियमाणं प्रस्खलद्रपत्वान्निषेधे पर्यवस्यति । ततश्च विधेरु- पकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी। नि- षेधागूरणादाक्षेप यथा

गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।


अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन वि-


त्यनेन कुत्राप्यस्य व्यभिचारो नास्तीति दर्शितम् । एतदुपसंहरन्नन्यदवतारयति-- एवमित्यादिना । समानन्यायत्वादिति । यथात्रेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवहाय्यनिष्टस्य विधिर्निषेधे इत्येवंरूपात् । एवमेतावन्मात्रमस्याद्यस्थ चाक्षे- पस्य साजात्यम्, न पुनः सामान्यलक्षणसंभव इति भावः । तदेवाह--अनिष्टेत्यादि । एतदेव दृष्टान्तद्वारकं व्याचष्टे-यथेत्यादिना । तदिति विधानम् । प्रस्खलद्रूपत्वा- दिति स्वार्थबाधात् । पर्यवस्यतीति । स्वात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः। तत- श्चेति विधेर्निषेधलक्षणात् । उपकरणीभूत इति । स्वार्थबाधादुपसर्जनीभूत इत्यर्थः ।। अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम् । अन्यथा हि गजस्नानतुल्यत्वं स्यात् । निषेधागुर- णादिति निषेधस्यात्र लक्ष्यमाणत्वात् । सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते । तस्मात्तत्प्रातिपत्तेः। तच्चार्थान्तरागूरणं ‘स्वसिद्धये पराक्षेपः’ इत्येवं लक्षणाप्र- कारस्य पूर्वं निरस्तत्वात्स्वात्मसमर्पणेनैव भवतति यथोक्तमेव युक्तम् । अत एवास्यान्व- र्थाभिधत्वम् । पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः । व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव युक्तं नापेक्षत्वम् ।‘इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमितम् । न तु प्रज्ञातिशय- वतां ‘प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ” इति नीत्या नाम्नि विवादो युक्तः । तस्मात् ‘आक्षिप्यतेऽत्र विधिना न यतो निषेधः स्वार्थ विधावपि न पर्यनुयोगबुद्धिः। तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव ॥’ इत्यादि न वा- च्यम् । निराकरणमुखेनेति । प्रवृत्तक्रियत्वात्कान्तस्यानुमोदनद्वारेणेत्यर्थः । प्रस्खल


१. ‘सद्भाव इत्यर्थः. २. ‘च प्रतिज्ञाशय’ स्ख. ३. ‘अनुकरण’ ख. ४. प्रलुठनृपत्वे नेति क.