पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
काव्यमाला ।


आक्षेपः । ‘केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भ- वद्भुजपञ्जरमेव रक्षास्थानम्’ इत्यादावाशेषबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेधत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिपरित्यागनिषेधकत्वेन प्र- तीयते । तेन नायमाक्षेपः । कस्तर्ह्यं विच्छित्तिप्रकारोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते ।

‘तदिष्टस्य निषध्यत्वमाक्षेपोक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः ।


इति पिण्डार्थः । इह तु

साहित्यपाथोनिधिमन्थनोरथं काव्यामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ।

गृहन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ।


इति । तथा

'देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु ।
वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ।
बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य ।
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः ।


प्रकारप्रकारिभावः कल्पितो न तु वास्तवः । विधिनिषेधयोर्निषेधविध्यागूरकस्वादनयोः * सामान्यलक्षणायोगात् । ततश्चेति निषेधस्य विधिपर्यवसानात् । अस्य चालंकारान्तराश्रया- द्वैलक्षण्यं दर्शयति-केवलमित्यादिना । अत्र राज्यवर्धनोक्तौ बालत्वादेरुक्तत्वम् । श्रीहर्षदेवोक्तौ तु निषेधाविवक्षा । प्रत्युतेति । न केवलं बाल्याद्यत्र निषेध्यत्वेन विवक्षि- तम् । यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः । तेनेति । बालत्वादैर्निषेध्यत्वैनाविवक्षित- त्वात् । वश्यत इति । सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना । एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदिष्टस्येत्यादिना । अन्यकृतय इति निषेधार्थम् । अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम् । एवं च निषेधकर्ते- । वाक्षेपोक्तेर्न निबन्धनमिति विहितनिषेधादावेतङ्द्भ्रमो न विधेय इत्याह-इह त्वि-


१. निषेधैकत्वेन स्ख.


१. ‘विशेषार्थम्’ ख.