पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| F ४] द्वितीयं काण्डम्. चिरिबिल्वो नक्तमालः करजश्च करके ॥ ४७ ॥ प्रकीर्यः पूतिकॅरेंजः पूतिकः कलिमारँकः ।। करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ रोही रोहितक: प्लीहशत्रुर्दाडिमपुष्पकः ॥ गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ अरिमेदो विखदिरे कदरः खदिरे सिते || सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ एरण्ड उरुँवृकश्च रुचकश्चित्रकश्च सः || चक्षुः पञ्चाङ्गुलो मण्डवर्धमानव्यँडम्बकाः ॥ ५१ ॥ 47-37 करञ्जवृक्षस्य ।। ४७ ॥ प्रकीर्यः पूतिकरजः “पूतीकरजः पूतीकरञ्जः” । “पूती- करञ्जः सुमनास्तथा कलहनाशने” इति रुद्रः । पूतिकः "पूतीकः” कलि- मारकः “कलिकारक इत्यपि पाठः" । चत्वारि काण्टेकरञ्ज “घाणेरा करझ" इति ख्यातस्य । षचन्थः मर्कटी अङ्गारवल्लरी एते त्रयः करञ्जभेदाः । “अङ्गार- वर्णपर्णा वल्लरी अङ्गारवल्लरी" ॥ ४८ ॥ रोही रोहितक: प्लीहशत्रुः दाडि - मपुष्पकः चत्वारि रक्तरोहिडा इति ख्यातस्य । गायत्री “वहिगायत्रिणा तथा" इति वैद्यकादिनन्तोऽपि । बालतनयः खदिरः दन्तधावनः चत्वारि खदि- रस्य । “ गायत्री स्त्रियाम्” । “गायत्री खदिरे स्त्री स्याद्” इति रभसः | वाल - पत्रयेति प्राचां पाठः । यदाह । “खदिरो रक्तसारथ गायत्री दन्तभावनः । कण्टकी वालपत्रच जिलशल्यः क्षतिः क्षयः" इति त्रिकाण्डशेषेऽप्येवमेव पाठः ॥ ४९ ॥ अरिमेद: विखदिरः द्वे दुर्गेधिखदिरस्य । विद्गन्धिः खदिरो विखदिरः । सिते शुक्लसारे खदिरे कदर: सोमवल्कः इति द्वयम् । व्याघ्रपुच्छः गन्धर्व- इस्तकः ॥५०॥ एरण्डः उरुबूक: "ऊरुबुक: रूकः रूबुकः " रुचकः चित्रकः चक्षुः पञ्चाङ्गुल: मण्डः वर्धमानः व्यडम्बकः “व्यडम्बनोऽषि " एकादश एर- ण्डस्स । मण्डयतीति मण्डः कचिदमण्ड इति पदमाह । आमण्ड इत्यपि । “गन्धर्व- हस्तको मण्ड आमण्डो व्याघ्रपुच्छकः" इति तारपालः ॥ ५१ ॥ याऽल्पा स्वल्पाकारा शमी स शमीर इत्येकम् । “कुटीशमीशुण्डाभ्योरः" इति सूत्रेण अल्पार्थे शमीशब्दात् रप्रत्ययः । शमी सक्तुफला "सक्तुफली " शिवा त्रयं Dighizad by Google 66