पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

51-56 ९२ सटीकामरकोशस्य [ वनौषधिवर्गः अल्पा शमी शमीरः स्याच्छमी सफलॉ शिवा ॥ पिण्डीतको मरुबकः श्वसनः करहाटकः ॥ ५२ ॥ शल्यश्च मदने शक्रपादपः पारिभद्रकः ॥ भद्रदारु डुकिलिमं पीतदारु च दारु च ॥ ५३ ॥ पूतिकाष्टं च सप्त स्युर्देवदारुण्यथ द्वयोः ॥ पाटलिं: पाटला मोघाँ काचस्थाली फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया || लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ॥ मण्डूकपर्णपत्रोर्णनटकट्टुण्टुकाः ॥ ५६ ।। स्योनांकशुकनासर्क्षदीर्घवृन्तकुटंनटाः ॥ शम्याः । पिण्डीतकः मरुबकः श्वसनः करहाटकः ॥ ५२ ॥ शल्पः मदनः षक गोळा इति ख्यातस्य | शक्रपादपः पारिभद्रकः । “पारिमद्रस्तु निम्बद्रौ मन्दारे देवदारुणि" । भद्रदारु बुकिलिमं पीतदारु दारु ॥ ५३ ॥ पूतिकाष्ठं एतानि सप्त देवदारुणि । पाटलि: “पाटली" पाटला मोघा "अमोघा " । “अलिप्रिया विशालाग्राऽप्यमोघा पाटलिईयोः " इति वाचस्पतिः । काच- स्थाली । काला स्थाली फलेरुहेत्यपि पाठस्तत्र काला स्थाली इति पदद्व- यम् । “काला तु कृष्णवृन्ताख्या मञ्जिष्ठा नीलिकासु च" इति मेदिनी । “स्थाली स्यात्पाटलोखयोः" इति मेदिनीविश्वप्रकाशौ । फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी सप्त पाटलायाः “पाडळी इति ख्यातायाः । तत्र पाटलिईयोः । श्यामा महिलाहया लता गोवन्दिनी गुन्द्रा प्रियकुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकः द्वादश प्रियकुवृक्षे "वाघांटी इति ख्याते " । महिलायाः स्त्रियाः आह्वय इव आइयो यस्याः सा । महिलायाः समग्रनामभिरधीयत इत्यर्थः । तत्र प्रियकः पुंसि । शेषं स्त्रियाम् । मण्डूकपर्ण: पत्रोर्ण: नटः कङ्गः टुण्डुकः ॥ ५६ ॥ स्योनाक: " श्योनाकः शोणाक: " शुकनासः ऋक्षः दीर्घवृन्तः कुटंनट: शोणक: "शोनकः” अरलु: “अरटु: " "} Digitized by Google