पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] द्वितीय काण्डम्. शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ।। ५७ ।। अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः || नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ अभया त्वन्यथा पथ्या कायस्था पूतनाऽमृता ॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥ पीतलः सरलः पूतिकाष्ठं चाथ दुमोत्पलः || कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ।। ६० ॥ पनसः कण्टकिफलो निचुलो हिजलोऽम्बुजः || काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ॥ ३१ ॥ द्वादश दण्डिका “दिंडा" इति ख्यातस्य । कचिदर्य देंटू इति ख्यातः । तिष्यफला आमलकी ॥ ५७ ॥ अमृता वयस्था चत्वारि आमलक्याः त्रिष्वित्युक्तेः आमलक: आमलकम् । विभीतकः अक्षः तुषः कर्षफलः भूता- वासः कलिनुमः पकं घाटिंग इति ख्यातस्य । कचिदयं बेहडा इति ख्यातः । त्रिलिङ्गत्वाद्विमीतकी विभीतकमिति च ॥ ५८ | अभया अव्यथा पथ्या कायस्था “अत्र वयस्येत्यपि पाठ: " पूतना । यस्याः सेवनेनाभ्यन्तरस्थमल- नाशे मनुष्यः पूतो भवति । अमृता हरीतकी हैमवती चेतकी श्रेयसी शिवा एकादश हिरडा इति ख्यातायां हरीतक्याम् ॥ ५९ ॥ पीतद्रुः सरलः पूति- काष्ठं त्रयं सरलस्य "देवदार इति ख्यातस्य " | दुमोत्पल : कर्णिकार: परि- व्याघः त्रयं कर्णिकारस्य “पांगारा इति च ख्यातस्य” | लकुचः लिङ्कचः 57-61 "डहू " त्रयं औट इति ख्यातस्य । “क्षुद्रपनसस्येत्यपि मतम् " ॥ ६० ।। पनसः “फलसः” कण्टकिफल: "कण्टकफल: " द्वे पनस इति प्रसिद्धस्य । निचुलः हिजलः “इजलः” । “ निचुलेजलहिजला " इति रमसः | अम्बुजः श्रीणि इजर इति रूपातस्य जलवेतसभेदस्य । “स्थलवेतसस्येत्यपि कचित् । निचूलः स्थलवेतसः” इति शब्दार्णवात् । समुद्रफलस्येत्यपि मतम् । काको- दुम्बरिका फल्गुः मलयूः “मलपू: मलापापात्पुनाति । मलापूरित्यपि । मल- घारणे बाहुलकादापू: " जघनेफला चत्वारि काळा उम्बर " बोखाडा, खर्वत " इति ख्यातस्य | जघने बुध्ने फलान्यस्या जघनेफला । पूर्वोचरसाहचर्यात् Digitized by Google