पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

61-65 [ वनौषधिवर्गः सटीकामरकोशस्य अरिष्टः सर्वतोभद्रहनिर्यासमालकाः ॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलाऽगुरुशिंशपा || ६२ ॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ॥ भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः || ६३ ॥ एतस्य कलिका गन्धफली स्यादय केसरे ॥ बक्कुलो वञ्जुलो शोके समौ करकदाँडिमौ ॥ ६४ ॥ चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ॥ जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ लगुरपि स्त्री । मलयूरिति तालव्यान्तम् ॥ ६१ ॥ अरिष्टः सर्वतोभद्रः हिङ्गुनि- र्यासः मालकः पिचुमन्दः “पिचुमर्दः” निम्बः षङ्कं निम्बस्य । हिजुगन्धिनिर्या- सोऽयम् । “ हिङ्गुनिर्यास इत्येष निम्मे हिङ्गुरसेऽपि च” इति मेदिनी । पिच्छिला अगुरुशिंशपा ॥ ६२ ॥ कपिला असगर्भा चत्वारि शिसवा इति ख्यातस्य | अगुरु इति पृथक्पदं वा । तत्पुनपुंसकम् । “अगुरु क्लीने शिशपायाम्" इति रुद्रः । “अगुरुः स्याच्छिशपायाम्" इति विश्वप्रकाशः । शिशपान्तं त्रयं शिसवा इति ख्यातस्य । या कपिला कृष्णवर्णपुष्पा सा भस्मगर्भेत्येकमित्यन्ये । काळा शिसवा इति प्रसिद्धस्य । शिरीषः कपीतनः भण्डिल: “भण्डिरः भण्डीलः" । "भण्डीलो भण्डिरो ना" इति वाचस्पतिः । त्रयं शिरस इति ख्या- तस्य । चाम्पेयः चम्पकः हेमपुष्पकः त्रयं कुडचांपा “सोनचांपा " इति ख्यातस्य ॥ ६३ ॥ एतस्य चम्पकस्य कलिका गन्धफलीत्येकम् । तथा च प्रयोगः । "न षट्पदो गन्धफलीमजिघ्रत्" इति । केसर: “: “तालव्यमध्योऽपि " ऑवळ " बकूळ " इति ख्यातस्य । वञ्जुलः अशोकः द्वे अशोकस्य । करकः दाडिमः “दाडिम्बः दालिमः डालिमः” । “दार्डिमसारभिण्डीरस्वाद्वम्लशुकव- लभा" इति रमसः । त्रिकाण्डशेषोऽप्येवम् । द्वे दाडिमस्य दाळिंब इति ख्यातस्य ॥ ६४ ॥ चाम्पेयः केशरः नागकेशरः । “स्वर्णेभसर्पाख्यो नागकेशरः षट्प- दप्रियः” इति रभसः । काञ्चनाहयः चत्वारि नागचांपा इति ख्यातस्य । काञ्चनाहयः स्वर्णपर्यायनामक इत्यर्थः । जया जयन्ती तर्कारी नादेयी वैजय- न्तिका पश्च टाहाकळ “थोर ऐराण " इति ख्यातायाः ॥ ६५ ॥ श्रीप Digitized by Google