पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] द्वितीयं काण्डम्. श्रीपर्णममिमन्थः स्यात्कणिका गणिकारिका || जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ।। एतस्यैव कलिङ्गेन्द्रयव भद्रयवं फले । कृष्णपाकफलाविमंसुषेणाः करमर्दके ।। ६७ ।। कालस्कन्धस्तमालः स्यात्तापिच्छोऽथ सिन्दुके || सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ वेणी गॅरा गॅरी देवताडो जीमूत इत्यपि || श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥ 65-69 अभिमन्थः कणिका गणिकारिका जयः पश्च नरवेल इति ख्यातस्य । दशा- प्येकस्य पर्याया इत्येके । कुटजः शक्रः वत्सकः गिरिमल्लिका चत्वारि कुडा इति प्रसिद्धस्य ।। ६६ ॥ एतस्यैव कुटजस्य फले कलिङ्गं इन्द्रयवं भद्र- यवमिति त्रीणि । कलिङ्गः इन्द्रयवः । “कलिङ्गेन्द्रयवः पुमान्" इत्यमरमाला । कलिङ्गा | तत्रैव स्त्रीकाण्डे पाठात् । कृष्णपाकफलः अविनः “आविमः " सुषेण: करमर्दकः चत्वारि करमर्दकस्य "करवन्द ” इति ख्यातस्य | कृष्ण- पार्क फलमस्य कृष्णपाकफलः ॥ ६७ ॥ कालस्कन्धः तमालः तापिच्छः “तापिञ्जः” त्रयं तमालस्य । सिन्दुकः " सिन्धुकः " सिन्दुवारः इन्द्रसुरसः “इन्द्रसुरिस: " निर्गुण्डी “निर्गुण्ठी" इन्द्राणिका पञ्च सिन्धुवारस्य सिन्धुआरी, निगडी, निर्गुडी इति ख्यातस्य ॥ ६८ ॥ वेणी गरा गरी खरेत्यपि अगरी- त्यपि । “देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान् ” इति रमसः । खरागरीति समस्तमपि । मूषिकाविषमस्वाद्गरमागिरतीति गरागरीत्येक पदमपि । तदुक्तम् । “जीमूतको देवताडो वृत्रकेशो गरागरी" इति । देवताडः जीमूतः पश्च देवतालस्य देवताली "देवडकरी " इति ख्यातस्य । श्रीहस्तिनी भूरुण्डी द्वे हस्तिकर्णाभपत्रस्य शाकभेदस्य सिरिहस्तिनी “थोर करडू " इति ख्यातस्य । तृणशून्यं तृणशूने गुल्मे साधु । तत्र साधुः" इति यत् । “ मल्लिको हंसभेदे स्यात्तृणशून्येऽपि मल्लिका " इति रुद्रः । मल्लिका || ६९ ।। भूपदी शीतभीरुः शतभीरु: । “मल्लिका शतभी- रुब गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायन्ती भूपदी तृणशून्यकम्” इति 46 Digitized by Google