पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19-12 सटीकामरकोशस्य. [ वनौषधिवर्गः भूपदी शीतभीरुश्च सैवास्फोटाँ वनोद्भवा || शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥ सिताऽसौ श्वेतसुरसा भूतवेश्यथ मागधी ॥ गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ॥ सुमना मालती जाँतिः सप्तला नवमॉलिका |॥ ७२ ॥ माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः || वाचस्पतिः । चत्वारि मल्लिकायाः मोगरी इति ख्यातायाः । सैव म- ल्लिका वनोद्भवा आस्फोटेत्युच्यते । एकं रानमोगरी इति ख्यातस्य । आस्फोतेत्यपि । “आस्फोता गिरिकर्णी च वनमल्लयां च योषिति" इति मेदिनी । शेफालिका "शीफालिका " सुवहा निर्गुण्डी नीलिका चत्वारि कृष्णपुष्पायाः निर्गुण्ड्याः “राननिर्गुण्डी इति ख्यातायाः । इयं श्वेतपुष्पा " ॥ ७० ॥ असौ निर्गुण्डी सिता श्वेतसुरसा भूतवेशी इति चोच्यते । “इयं कातरी निर्गुडी इति ख्याता" । मागधी गणिका यूथिका अम्बष्ठा चत्वारि यूथिकायाः जुई इति ख्यातायाः । सा यूथिका पीता पीतपुष्पा चेत् हेमपुष्पिका स्यात् एकम् ॥ ७१ ॥ अतिमुक्तः पुण्ड्रकः । वासन्ती वसन्ते पुष्यति कालादित्यण् । एवं माधवीत्यपि ज्ञेयम् । माधवी लता पश्च कुन्दभेदस्य क्रुसरी इति “कस्तुर- मोगरा, मधुमाधवी इति च ख्यातस्य अतिमुक्तादिद्वयं मल्लिकाभेदस्ये- त्येके । माधवीलतेत्येकं पदमपि । सुमनाः मालती जाति: “जाती " । "जाती फले च मालत्याम्” इति मेदिनी । त्रीणि जाते: जाई “चमेली ” मोठी श्वेतजाई, पीतवर्ण जाई" इति ख्यातायाः । तत्र सुमनाः सान्तः । टाबन्तो- ऽपि । सुमनायाच पत्रेणेति सुश्रुते दर्शनात् । सप्तला नवमालिका " नवम- ल्लिका" द्वे नेवाळी “थोर मोगरा, बटमोगरा बेलमोगरा " इति ख्यातायाः ॥७२॥ माध्यं कुन्दं” “कुन्दः । कुन्दो माध्येऽस्त्री मुकुन्द अमिनिध्यन्तरेषु च " इति मेदिनी । द्वे कुन्दस्य । रक्तकः बन्धूकः 'बन्धुक" बन्धुजीवकः त्रीणि बंधुकस्य "दुपारी इति ख्यातस्य" । सहा कुमारी तरणि: । "धुमणौ तरणिः पुंसि कुमारी नौकयोः स्त्रियाम्” इति रत्नः । त्रीणि कुमारी इति “कांटेशेवती, लघुरानशेवती, शेवतीगुलाब" इति ख्यातायाः कुमार्याः । Digized by Google