पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

43-46 सटीकामरकोशस्य [ वनौषधिवर्ग: लक्षश्र तिन्तिंडी चिचाऽम्लिंकाऽथो पीतसारके |॥ ४३ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ॥ साँले तु सर्जकार्याश्वकर्णकाः सँस्यसम्बरः ॥ ४४ ॥ नदीसर्जो वीरतरुरिन्द्रः ककुभोऽर्जुनः || राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इनुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ॥ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिंर्दयोः ॥ ४६ ॥ पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः || चाम्लिका चिश्चा तिन्तिडीका च तिन्तिली " इति चन्द्रः । चिचा अम्लिका आम्लीका “आम्लिका । तिन्तिडी त्वाम्लिका चिश्वा तिन्तिडीका कपिप्रि- या" इति बाचस्पतिः । त्रयं चिश्वायाः | पीतसारकः ॥ ४३ ॥ सर्जकः असनः “आसनः” । “पीठेमस्कन्धयोः क्लीबमासनं ना तु जीवक इति रुद्ररभसौ ।” बन्धूकपुष्पः प्रियकः जीवकः पई असणा इति ख्यातस्य । 'तत्र कांटेअसण, पालेअसण इति द्वौ भेदौ ख्यातौ " 1 सालः 'श्यालः " सर्जः कार्ग्यः “कार्ष्य: " अश्वकर्णकः अश्वस्य कर्ण इव पत्रमस्य | सस्यसम्बर: “शस्वसं- 66 46 44 पञ्च शालवृक्षस्य सालई इति प्रसिद्धस्य ॥ ४४ ॥ नदीसर्जः वीरतरुः इन्द्रवुः ककुभः अर्जुनः पञ्चकं अर्जुनवृक्षस्य । “ अर्जुनसादंडा इत्यपि बदन्ति " । राजादनः “राजादनम्” । “राजादनं क्षीरिकायां प्रियाले किंशु- केऽपि च" इति मेदिनी । फलाध्यक्षः क्षीरिका त्रयं खिरणी इति ख्यातस्य ॥ ४५ ॥ इकुदी तापसतरुः | तापसस्य तरुः | तपस्विन् उपयुक्ततरुत्वात् । द्वे इकुया: हिंगणवेट इति ख्यातायाः । द्वयोरित्युक्तत्वात्पुंसि तु इकुदः । भूर्ज: चर्मी मृदुत्वक् त्रीणि भूर्जवृक्षस्य | पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलि: “शाल्मली शाल्मलः " पञ्च सांवरी इति ख्यातस्य । द्वयोः स्त्रीपुं- सयोः । स्थिरमायुर्यस्याः स्थिरायु: । “पष्टिवर्षसहस्राणि वने जीवति शाल्म- लिः” इति वचनात् ॥ ४६ ॥ शाल्मल्या वेष्टे निर्यासे पिच्छेत्येकम् | सांव- रीचा डीक इति ख्यातस्य । “काथः कषायो निर्यूषो निर्यासो वेष्टकस्तथा " इति रमसः । रोचनः कूटशाल्मलिः द्वे काळी सांवरी इति ख्यातस्य । चिरि- बिल्व: “चिरबिल्वः" नक्तमालः “रक्तमाल: " करजः करञ्जकः चत्वारि Digitized by Google