पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ सोभाने शिश्रुतीक्ष्णगन्धकांक्षीवमोचकाः ॥ रक्तोऽसौ मधुशिनुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥ बिल्वे शाण्डिल्यशैलृषौ मालूर श्रीफलावपि || प्रक्षो जंटी पर्कटी स्यान्यग्रोधो बहुपाटः ॥ ३२ ॥ गालवः शाँबरो लोध्रस्तिरीटस्तित्वमार्जनौ ।। आम्रो रसालोऽसौ सहकारोऽतिसौरभः || ३३ || कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः || 30-33 " वारद्धुमेषु च " इत्यजयात् । वानीरः वञ्जुलः ससक वेतसंस्य “वेत इति ख्यातस्य ” । परिव्याघः विदुलः नादयी अम्बुवेतसः चत्वारि जलवेतसस्य । नादेयी स्त्री ॥ ३० ॥ सोभाञ्जनः “सौभाञ्जनः शोभाञ्जनः शौभाञ्जनः ” शिग्रुः तीक्ष्णगन्धकः अक्षीव: "आक्षीवः " मोचकः पञ्चकं शेगूल “शेवगा, शेगट" इति ख्यातस्य । असौ सोभाञ्जनो रक्तो रक्तपुष्पचेन्मधुशिप्रुरित्यु- य्यते एकम् । अरिष्टः फेनिलः द्वे रिठा इति ख्यातस्य । " अन्यत्र रिष्टमि- त्यपि । रिष्टं क्षेम शुभाभावे पुंसि खड्ने च फेनिले " इति मेदिनी ॥ ३१ ॥ बिल्य: शाण्डिल्य: शैलूषः मालूर: श्रीफलः पञ्चकं बिल्वस्य । लक्षः जटी “जटि: " पर्कटी “पर्कटि: " त्रयं पिंपरी इति ख्यातस्य । अयं गोमान्तक- भाषया केळा इति ख्यातः । तत्र जटीपर्कटिनाविन्तौ । पर्कटी ङीपन्तेति कचित् | न्यग्रोधः बहुपात् वटः श्रयं वटस्य ॥ ३२ ॥ गालब: शावर: “साबरः ” लोधः तिरीट: तिल्व: मार्जनः ष लोधस्य । तत्राद्यौ श्वेत- लोधे शेषा रक्तलोधे इत्येके । आम्रः चूतः रसालः त्रयं आम्रस्य । असौ आम्रोऽतिसौरभवेत्सहकार इत्येकम् ॥ ३३ ॥ कुम्भः उलूखलकम् । कम्भेति संघातविगृहीतम् | कुम्ममिति लीबमपि । “कार्मुके वारनार्थी च कुम्भ क्लीषं तु गुग्गुलौ” इति रमसः । “कुम्भं त्रिवृत्तिगुग्गुलौ” इति विश्वप्रकाशः । उद्खलमि- त्यपि । “उद्खलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः" इति मेदिनी । “उलूखले गुग्गुलौ च लीबमुक्तमुखलम्” इति रुद्रः । अत्र पक्षे कुम्भं चोदूखलमिति पाठः कर्त्तव्यः । कुम्भोलूः खलकम् | कुम्भोलूखलकम् | कुम्मोलूखलाकाराक्षकोशा- भिर्यातम् । “कुम्भोलूखलकं कुम्मै कुम्भोलूखलकं वरम्” इति वाचस्पतिः । कौशि- का मुग्गुलुः "गुग्गुलः” पुरः पञ्च गुग्गुलवृक्षस्य | पुरोऽदन्तः । शेलु: "सेलु: " Diglized by Google