पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25-99 [ वनौषधिवर्गः सटीकामरकोशस्य पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ तिनिशे स्यन्दनो नेमी रथरतिमुक्तकः ॥ २६ ॥ वञ्जुलश्चत्रकृचाथ द्वौ पीतनकपीतनौ ॥ आग्रातके मधूकें तु गुडपुष्पमधुसुमौ ॥ २७ ॥ वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः || पीलौ गुडफलः संसी तस्मिंस्तु गिरिभवे ॥ २८ ॥ अक्षोटकन्दरालो दावङ्कोटे तु निकोचकः ॥ पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥ रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः ॥ देववल्लभः पञ्चकं उंडी "उंडणी, उंडली" इति ख्यातस्य ॥ २५ ॥ पारिभद्रः निम्बतरुः मन्दारः पारिजातकः चत्वारि निम्बतरो: "कडूनिंब इति ख्यातस्य" । तिनिशः खन्दनः नेमी नेमिः । “पुलिङ्गस्तिनिशे नेमिचक्रप्रान्ते स्त्रियामपि " इति रुद्रः । रथः अतिमुक्तकः ॥ २६ ॥ वसुल: चित्रकृत् सप्त तिवस इति ख्यातस्य । अयं खदिरसदृशः कण्टकरहितः । पीतनः कपीतनः आम्रातकः “अग्रातकः । कपिचूतोऽनातकोऽस्य फले पशुहरीतकीति त्रिकाण्डशेषः । ” त्रयं अंबाडा इति ख्यातस्य । मधूकः 'मधुकः मधूलः मधुलः " गुडपुष्पः मधुद्रुमः ॥ २७ ॥ वानप्रस्थः मधुष्ठीलः पञ्चकं मोहा इति ख्याते | जलजेऽत्र मधूके मधूलक इत्येकम् । अयं पूर्वस्मादीर्घपत्रः | गिरिजेऽत्र मधूलक इत्यपि पाठः । “गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रकः” इति माघवः । “मधू- कोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः" इति स्वामी । पीलुः गुडफल: संसी श्रीणि पीलुवृक्षस्य " अक्रोड इति प्रसिद्धस्य" । अयं गुर्जरदेशे प्रसिद्धः । गिरिसंभवे- तसिन्पीलौ ॥ २८ ॥ अक्षोट: “अक्षोड: आक्षोड: आक्षोरः आखोट: " कन्दरालः “कर्षरालः” इति द्वयं पर्वतपीलो: "डोंगरी आक्रोड इति ख्यातस्य" । अङ्कोट: “असोठ: अकोल: " निकोचकः “निकोटकः” द्वे अकोटस्य " पिस्ते इति ख्यातस्य ।" पलाशः किंशुक: । किंचित् शुक इव शुकतुण्डाभपुष्पत्वात् । पर्ण: वासपोथः चत्वारि पलाशस्य | बेतसः ॥ २९ ॥ रथः अभ्रपुष्पः विदुल: शीतः “शीतम्” । “शीतं तुषारवानीरबहु- Diglized by Google .