पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34-35 सटीकामरकोशस्य [ वनौषधिवर्गः शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ राजादैनं प्रियालः स्यात्सन्नकदुर्घनुःपटः ॥ गंम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ दयोः || कर्कघूँर्बदरी कोर्लिंः कोलं कुवलफेनिले ॥ ३६ ॥ सौवीर बदर घोण्टाऽप्यथ स्यात्स्वादुकण्टकः || विकङ्कतः खुवावृक्षो ग्रन्थिलो व्यात्रपादपि ॥ ३७ ॥ ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका || तिन्दुक: स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥ ८८ श्लेष्मातकः शीतः उद्दालः बहुवारकः पञ्च शेलट “भोंकरी" इति ख्यातस्य ॥ ३४ ॥ राजादनं राजातनः राजादनः । “राजादनं प्रसरको राजातनः " इति वाचस्पतिः ॥ प्रियाल: "प्रियालभ प्रियालकः” इति माधवः । सन्भ- कद्रुः धनुःपटः चत्वारि चार इति ख्यातस्य । धनुः पट इति व्यस्तमपि । “धनुः प्रियाले ना न स्त्री राशिमेदे शरासने” इति मेदिनी । “पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम्” इति रभसः । गम्भारी "कम्भारी " सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी काश्मर्य: सत शिवणी इति ख्यातस्य | काश्मर्योऽन्तः पुंसि । कर्कन्धू: "कर्कन्धुः " बदरी कोलिः "कोली केला " श्रीणि बोर इति ख्यातस्य । तत्र कर्कन्धूईयोः स्त्रीपुंसयोः । कोल कुवलं फेनिलम् ॥ ३६ ॥ सौवीरम् । यत्रि सौवीर्यम् । बदर घोटा बदरीफलस्य । घोण्टाशब्दो बदरीसदृशे वृक्षभेदेऽपि वर्तते । “बद- रीसहशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघण्टेति चोच्यते” इति सुभूत्युक्ते: स्वादुकण्टक: विकतः “वैकङ्कतः” सुवावृक्ष स्रुवायाः वृक्षः खुवा नाम होमपात्रभेदः । ग्रन्थिलः न्याघ्रपात् पञ्च विकक- तस्य "वेहळी इति ख्यातस्य ” । अयं यज्ञियवृक्षभेद: करनाटकभाषया हळुमाणिका इति ख्यातः ॥ ३७ || ऐरावतः नागरङ्गः नादेयी भूमिजम्बुका चत्वारि नागरङ्गस्य नारिंग इति ख्यातस्य । अत्र पूर्वद्वय नागरजयाः अपरद्वयं भूमिजम्वा इत्यपि मतम् । तिन्दुक: "तिन्दुकी " स्फूर्जक काल - स्कन्धः शितिसारकः चत्वारि तेण्डू टेंभुरणी इति ख्यातस्य ॥ ३८ ॥ काकेन्दुः " Diglized by Google