पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18. सटीकामरकोशस्य [ पुरवर्ग: (“ द्यावापृथिव्यौ रौदस्यौ द्यावाभूमी च रोदसी ॥ दिवस्पृथिव्यौ गजा तु रुमा स्यालवणाकरः ॥१॥”) (१) इति भूमिवर्गः ॥ १ ॥ पूः स्त्री पुँरीनगर्यो वा पत्तनं पुटभेदनम् ॥ स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥ तच्छाखानगरं वेशो वेश्याजनसँमाश्रयः ॥ आपणस्तु निषद्यायां विपॅणिः पण्यवीथिका ॥ २ ॥ दीनामसंकुलम् । पुरस्योपस्कर चोक्तमिति अमः ॥ १८ ॥ “ द्यावेत्यादीनि पश्च द्विवचननामानि द्यावाभूम्योः । गजेत्यादि त्रयं क्षारसमुद्रस्य | "गञ्जा सनौ सुरागृहे | रुमा सुप्रीवदारेषु विशिष्टलवणाकरे" इति मेदिनी । “गजारुमे स्त्रियाम् । " ॥ १ ॥ अङ्गोपाङ्गापेक्षया भूमिरेवान प्रधानमिति भूमिवर्ग इति व्यपदेशः । एवमन्यत्रापि मन्तव्यम् ॥ इति भूमिवर्गः ॥ १ ॥ पूः पुरी “पुरि: " नगरी पञ्चनं “पट्टन" पुटभेदन स्थानीय निगमः सतर्क नगरस्य । पूः पुरौ । पुरीनगर्यो वा खियौ । पक्षे पुर नगरम् | केचिदत्र भेदं चक्रुर्यथा | यत्रानेक- शिल्पिनोऽनेकवणिगादिव्यवहारस्तत्पुरादिसंज्ञम् । यत्र राजा तदनुचराच सन्ति तत्पुरं पत्तनादिसंज्ञम् । यत्प्राकारादिवेष्टितं विस्तीर्ण पुरं तत्स्थानी- यादिनामकमिति । यन्मूलनगरादन्यत्पुरं तच्छाखानगरमित्यन्वयः । एकम् । मूलनगर राजधानी ॥ १ ॥ वेश्याजनस्य समाश्रयो निवेशस्थानं वेश इत्यु - च्यते । द्वे वेश्यानिवासस्य । तालव्यान्तम् । “नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च” इति तालव्यान्ते रभसः। “गृहमात्रे गणिकायाः सअनि वेशो भवे तालव्यः । तालव्यो मृर्द्धन्योऽलंकरणे कथित आचार्यै: " इत्यूष्म- विवेकः । आपणः निषद्या द्वे क्रय्यवस्तुशालायाः । हट्टवणिक्पथपण्याजिरा- दिकमपि । विपणि: "विपणी" पण्यवीथिका द्वे क्रय्यबस्तुशालापतेः । चत्वार्यपि हट्टस्येत्यन्ये । विपणिः स्त्री । “आपणादि द्वयं हट्टस्य बाजार इति प्रसिद्धस्य | विषणीति द्वयं हृदृशून्यविक्रयस्थानस्येत्यपि मतम् " ॥ २ ॥ रथ्या । रथं वहतीति “तद्ब्रहति रथयुग" इति यत् । प्रतोली विशिखा त्रीणि इदं पथं तालपत्रपुस्तकेऽपि नास्ति । Dightizad by Google