पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I १] द्वितीय काण्डम् सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ अतिपन्थाः सुपन्थाच सत्पथश्वार्चितेऽध्वनि || व्यध्वो दुरध्वो विपथः कदध्वा काँपथः समाः ॥ १६ ॥ अपन्यास्त्वपथं तुल्ये शृङ्गाटकचतुष्पये || प्रातरं दूरशून्योऽध्या कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥ गव्यूतिः स्त्री क्रोशयुगं नत्वः किष्कुचतुःशँतम् || घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ" इति हैमः । वर्त्म मार्ग: अध्वा पन्थाः पथः । "वाट: पथच मार्गश्च” इति त्रिकाण्डशेषः । पदवी “पदविः " सृतिः सरणिः । “शरणिः पथि चावलौ" इति तालव्यादावजयासालव्या- दिरपि । ङीषन्तोऽपि । पद्धतिः "पद्धती " पद्या पादाय हिता पद्या । "तस्मै हितम् " इति यत् । वर्तनी वर्तनिः वर्त्मनिः । “वर्त्मनिर्वर्त्मनी पथि” इति हैमः । एकपदी द्वादश मार्गस्य ॥ १५ ॥ अतिपन्थाः सुपन्थाः सत्पथः त्रयं अर्चिते- sध्वनि सोभने मार्गे | व्यध्वः दुरध्वः विपथः कदध्या कापथ: “कुपथो- अपि " पञ्च दुर्मार्गस्य । तत्र कदध्वा नान्तः ॥ १६ ।। अपन्थाः अपथं द्वे अमार्गस्य | शृङ्गाटकं चतुष्पर्थ द्वे चव्हाटा इति ख्यातस्य । दूरबासौं शून्यच दूरशून्यः । छायाजलादिवर्जितो दूरस्थोऽध्वा मार्ग: प्रान्तरमित्युच्यते । एकम् । यद्दुर्गम चोरकण्टकायुपद्रवयुक्त वर्त्म मार्गः कान्तारमित्युच्यते । पुंसि कान्तारः । “कान्तारोऽखी महारण्ये बिले दुर्गमवर्त्मनि” इति मेदिनी । एकम् ||१७|| क्रोशयुगं गव्यूतिरित्युच्यते । “क्रोशो धनुः सहस्से द्वे धनुर्हस्तचतुष्टयम् । द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितम्” इति शब्दार्णवात्स्यपि । लीबे तु गव्यूतम् । “धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वय पुनः | गन्यूतं स्त्री तु गन्यूतिर्गोरुतं गोमतं च तत्” इति वाचस्पतिः । किष्कूणां हस्तानां चतुःशतं “चतुःशती वा" नल्व इत्युच्यते । चतुःशतहस्तमितं स्थानं नल्वसंज्ञकमित्यर्थः । एकम् । घण्टापथः संसरणं द्वे राजपथमात्रस्य | घण्टोपलक्षितगजादीनां पन्थाः घण्टापथः । “दशधन्वन्तरी राजमार्गों घण्टापथः स्मृतः" इति चाणक्यः । तत्संसरणं पुरस्य नगरस्य चेदुपनिष्करमित्येकम् । बुधैः संसरणं वर्त्म गजा- Digitized by Google