पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०] प्रथमं काण्डम्. शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ शरावती वेत्रवती चंन्द्रभागाँ सरस्वती ॥ ३४ ॥ कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः || द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥ देविकायां सरय्वां च भवे दाविकसारखौ || सौगन्धिकं तु कहारं हलकं रक्तसन्ध्यकम् ॥ ३६ ॥ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च || इन्दीवर च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥ शालूकमेषां कन्दः स्यादारिपर्णी तु कुम्भिका || जलनीली तु शेवालं शैवॅलोऽथ कुमुदती ॥ ३८ ॥ 33-38 याऽल्पा कृत्रिमा सरित्सा कुल्या | तालव्यान्तम् । एकम् । “कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणालिकेति धरणेर्नदीमात्रेऽपि । शरावती वेत्रवती चन्द्र- भामा “चान्द्रभागा चान्द्रभागी चन्द्रभागी"। "चन्द्रभागा चान्द्रभागा चान्द्र- मागी च सा मता| चन्द्रभागी च सैवोक्ता" इति द्विरूपकोशः । सरस्वती ||३४|| कावेरी एते पञ्च सरिद्विशेषाः । एकैकम् । अन्याय सरितः कौशिकीगण्डकी- चर्मण्वतीगोदावेण्याद्याः सन्तीति शेषः | संमेद: सिन्धुसंगम: । द्वे नदीमेल- कस्य नदीसंगमस्य । संभिद्यन्ते मिलन्त्यत्र सभेदः । पयसो जलस्य पदव्यां निर्गमनमार्गे मकरमुखादिरूपा प्रणालीत्येकम् । तत् द्वयोः पुसि तु प्रणालः ॥ ३५ ॥ उत्तरौ दाविकसारखौ त्रिषु । देविकायां नद्यां भवं दावि- कम् । सरवां नद्यां भवं सारवम् । “दाण्डिनायन” इति निपातनात्सारवशब्दः साधुः । एकैकम् । स्त्रियां तु दाविकी सारवी । सौगन्धिक कडार “ कल्हार" सन्ध्याविकासिनः शुक्लसरोजस्य | हल्लकं रक्तसन्ध्यर्क द्वे रक्तककारस्य । रक्तासन्धीन अकति रक्तसन्ध्यकम् || ३६ || उत्पलं कुवलय के कुमुदस्य । कमलसाधारणस्येत्यन्ये । “कुवलं तूत्पलं कुबम्" इति त्रिकाण्डशेषः । नीले- नीलाम्बुजन्म इन्दीवरं इति द्वे । “इन्दिवर इन्दीवार इत्यपि । " सिते शुम्रेऽसिनुत्पले कुमुद कैरव द्वे । केरवस्य इंसस्येदं प्रियं कैरवम् ॥ ३७ ॥ एषां उत्पलविशेषाणां कन्दः शालूकं स्यात् एकम् । वारिपर्णी कुम्मिका द्वे जलकुम्भीति ख्यातायाः । जलनीली शेवालं शेवलः “शैवालः । Diglized by Google