पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38-42, [ वारिवर्ग: सठीकामरकोचास्य कुमुदिन्या नर्लिन्यां तु बिसिनी पद्मिनीमुखाः || वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् || पेरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ बिसप्रसून राजीवपुष्कराम्भोरुहाणि च ॥ पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥ रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ मृणालं बिर्समब्जादिकदम्बे खण्डमस्त्रियाम ॥ ४२ ॥ करहाटः शिफाकन्दः किअल्कः कैंसरोऽस्त्रियाम् || शेवालथापि शैवाल : शेवलो जलनीलिका । त्रयं शेवाळ इति ख्यातस्य । कुमुद्रती || ३८ ।। कुमुदिनी द्वे कुमुदिन्याः कुम्मृदयुक्तदेशस्य च । नलिनी “नडिन्यपि” । नडाः सन्त्यत्रेति नडिनी | बिसिनी पद्मिनी त्रयं कमलिन्याः । मुखशब्दात्सरोजिनीप्रभृतयः । पद्मं नलिनं अरविन्द महोत्पलम् ।।३९।। सहस्रपत्रं कमलं शतपत्रं कुशेशयं परुई तामरसं सारस | सरसीरुहम् ॥ ४० ॥ बिस- प्रसूनं राजीवं पुष्करं अम्भोरुहं षोडश कमलस्य । वा पुंसीति षोडशभिरपि संबध्यते । तत्र पुण्डरीकं सिताम्भोजं द्वे सितकमलस्य | रक्तसरोरुहम् ॥४१॥ रक्तोत्पलं कोकनदं त्रयं रक्तकमलस्य । कोकनदमिति रक्तकुन्देऽपि वर्तते । यदाहुः । “रक्ताब्जे रक्तकुन्दे च बुधैः कोकनदं स्मृतम्” इति । नालः नालम् । "नाला नाली च " द्वे पद्मादिदण्डस्य । मृणाल बिसम् । मृणाली मृणालः बिशम् । “मृणालं नलदे क्ली पुनपुंसकयोविंशः” इति विश्वः ॥ "मृणाले तु विशं बिसम्" इति द्विरूपकोश: । द्वे मृणालस्य "भिसें" इति ख्यातस्य || अस्त्रियां क्लबपुसः । अब्जादिकदम्बे कमलादीनां समूहे खण्डमित्येकमखियाम् । शण्डः षण्डः । “तालव्यो मूर्द्धन्योऽब्जादिकदम्बे षण्डशब्दोऽयम् । मूर्द्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः” इत्यूष्मविवेकः ॥ ४२ ॥ करहाटः शिफाकन्दः द्वे पञ्चम् - लस्य । शिफा मूलतरुप्ररोहस्तत्सहितः कन्दः । कन्दो मूलमित्यर्थः । शिफेति च कन्दमिति च पृथक् नामनी इत्येके । किञ्जल्कः केसर: “केशरः" द्वे केसरस्य । संवर्तिका नवदलं द्वे पद्मादीनां नवपत्रस्य | बीजकोशः वराटकः । " Diglized by Google