पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29-33. सटीकामरकोशस्य [ बारिवर्ग: तरङ्गिणी शैवलिनी तटिनी हाँदिनी धुनी ॥ स्रोतखिनी द्वीपवती सवन्ती निम्नगाँपगा ॥ ३० ॥ (“कूलंकषा निर्झरिणी रोघोवत्रा सरस्वती" || गङ्गा विष्णुपदी जहुतनया सुरनिम्नगा ॥ ) ( १ ) भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥ कालिन्दी सूर्यतनया यमुना शमनस्वसा || रेवा तु नर्मदा सोमोद्भवा मेकॅलकन्यका ॥ ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी || शतस्तु शुतुद्रिः स्यादिपाशा तु विपाट् स्त्रियाम् ॥ ३३ ॥ 1 वती सवन्ती निम्नगा आपगा। अपां समूहो आप तेन गच्छति । समूहे अण् । गमेर्ड: अपगेति इस्वादिरपि । “विद्यादगारमागारमपगामापमाम- पि" इति द्विरूपकोशः । द्वादश नद्याः ॥ ३० ॥ कूलंकषादिसरस्वत्यन्तानि चत्वार्यपि नद्याः । गङ्गा विष्णुपदी जद्दुतनया सुरनिंगा भागीरथी त्रिप- थगा त्रिस्रोता: भीष्मसूः अष्टौ भागीरथ्याः | त्रिस्रोताः सान्ता ॥ ३१ ॥ कालिन्दी सूर्यतनया यमुना समनस्वसा चत्वारि यमुनायाः । शमनखसा ऋदन्ता । रेवा नर्मदा सोमोद्भवा । सोमात् सोमवंशजात्पुरूरवस उद्भवति । अच् । तेनावतारितत्वात् । अथवा सोमाद्राद्भवति । मेकलकन्यका " मेख - लकन्यका " चत्वारि नर्मदायाः । मेकलो ऋषिरद्रिव तस्य कन्यका ॥ ३२ ॥ करतोया सदानीरा द्वे गौरीविवाहे कन्यादानोदकाज्जातायाः । यदुक्तम् । “प्रथमं कर्कटे देवी त्र्यई गङ्गा रजस्वला | सर्वा रक्तवहा नद्यः करतोयाम्बुवा- हिनी” इति । बाहुदा सैतवाहिनी द्वे कार्तवीर्यार्जुनेन याऽवतारिता तस्याः । बाहुदस्य कार्तवीर्यस्येयं बाहुदा । शतब्रुः शुतुद्रिः । द्वे शतरुद्रेति देशभाषया प्रसिद्धायाः । शुतुद्रीत्यपि पाठः । शुतुद्रि ( २ ) स्तोममिति श्रुतेः पाठात् । वसिष्ठशापभयाच्छतभा द्रुता शतद्भु: । विपाशा विपार् द्वे पाशमोचिनीति ख्यातायाः । वसिष्ठं विपाशयतीति विपाद् सकारान्ता || ३३ || श्रोणः हिरण्यवाहः द्वे नदविशेषस्य “श्रोणानदीति प्रसिद्धस्य ।" १ इदं पद्यमपि तालपत्रपुस्तके नास्ति || २ हे शुतुद्रि - इति संबोधनमिदम् ॥ Diglized by Google 1 1