पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १०] प्रथमं काण्डम्. ६१ पुंस्येवाऽन्धुः महिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकाऽस्य वीनाहो मुखबन्धनमस्य यत् || पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥ पद्माकरस्तडाँगोऽस्त्री कासारः सरसी सरः || वेशन्तः पवलं चाल्पसरो वाँपी तु दीर्घिका ॥ २८ ॥ खेयं तु परिखाधारस्त्वंभसां यत्र धारणम् || स्यादालवालमावालमावापोऽथनदी सरित् ॥ २९ ॥ 26-29 गावः पिबन्ति तत्र आहावः निपानं इति द्वे । अन्धुः प्रहः कूपः उदपानं चत्वारि "विहीर" इति ख्यातस्य । तत्रोदपानं पुंसि वा ॥ २६ ॥ अस्य कूपस्य नेमिः अन्ते रज्ज्वादिधारणार्थं दारुयन्त्रं सा त्रिका । “त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठधरेऽस्त्रियाम् " इति विश्वमेदिन्यौ । एक “हातराहाट" इति ख्यातस्य । अस्य कूपस्य पाषाणादिभिर्यन्मुखनिबन्धनं "नन्दीपट" इति ख्यातं स वीनाह उच्यते । “विनाह: " एकम् । पुष्करिणी खात द्वे पुष्करिण्याः | अखातं देवखातकं "अखातो देवखातकः” इति पुस्काण्डेऽमरदत्तात्स्य- पि द्वे अकृत्रिमखातस्य । देवद्वारस्थजलाशयस्येत्यन्ये ॥ २७ ॥ पद्माकरः तडागः कासार: सरसी सरः पञ्च तडागस्य । तत्र तडागे सटाक इति पाठः । स पुअपुंसकयोः । “तटाकतडागावपि " । अत्र पद्यादि द्वे सपनागाधजला- शयस्य | कासारादित्रयं कृत्रिमपद्माकरस्येत्यपि मतम् । सरसी स्त्री । सरः सान्तम् । वेशन्तः पल्वलं “पल्वलः”। “वेशन्तः पल्वलोऽसी" इति वाचस्पतिः । अल्पसर : त्रीणि स्वल्पसरसः । वापी “वापिः” । “वाप्यां वापिरपि स्मृता" इति द्विरूपकोशः । दीर्घिका द्वे “दीर्घी" इति ख्यातायाः अवरोहणवापिकायाः ॥ २८ ॥ खेयं परिखा द्वे दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य “चर” इति प्रसिद्धस्य ( खंदक इत्यपि प्रसिद्धिः ) । यत्र अम्भसां धारण क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार उच्यते एकम् “धरण बांद” इति ख्यातस्य । यदुक्तम् । “अपां धारणमाधारस्तदल्पं चालवालकम्” इति । आलवालं “अल- वाल" आवालं आवापः त्रीणि वृक्षादिमूले समन्ततोऽम्भसो धारणार्थ यद्वे- घ्नं तस्य "अळें" इति ख्यातस्य । नदी सरित् ॥ २९ ॥ तरङ्गिणी शैव- लिनी तटिनी हादिनी "इदिनी " धुनी स्रोतखिनी "स्रोतखती " द्वीप- ·}} Diglized by Google