पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6-9 [ वारिवर्गः ५६ सटीकामरकोशस्य चक्राणि पुटभेदाः स्युर्भमाश्र जलनिर्गमाः ॥ कूलं रोघच तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।। द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तरम् ॥ ८ ॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् || निषदरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।। नपुंसकम्" । पुटभेदाः भ्रमाः जलनिर्गमाः चत्वारि यानि चक्राकारेण जलान्यधो यान्ति तेषाम् । “चक्रादिद्वयं चक्राकारेण जलानामधो यानस्य | भ्रमादि द्वयं जलनिःसरणजालकस्य । नद्यादौ अधःस्थजलस्योर्ध्वनिःसरणस्येति वा मतम् । कूलं रोधः तीरं प्रतीरं तटं पञ्च तीरस्य | रोधः सान्तम् । अदन्तोऽपि । “रोधः ग्रोक्तथ रोधसि" इति संसारावर्तः । तटं त्रिलिङ्गम् ||७|| परं च अर्वाक् च परार्वाची तीरे क्रमेण पारावारे उच्येते । नद्याः परती र पारं अवाक्तीरं आवारमित्यर्थः । एकैकम् । तयोः पारावारयोः अन्तरं मध्यं पात्रमुच्यते । “पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यलभाण्डे नाट्यानुकर्तरि " इति हैमः । एकम् । बारिणोऽन्तर्मध्ये यत्तटं तत् द्वीप इति अन्तरीपमिति चोच्यते । अस्त्रियामित्यु- भाभ्यां संबध्यते । द्वे । द्विर्गता आपोऽत्र स द्वीपः । अपां अन्तर्गत अन्तरीपम् । द्वीपान्तरीपशब्दयोः समासान्तोऽच् । उभयत्रापि “ज्यन्तरुप” इतीकारः । (बेट इति प्रसिद्धम् ) ॥ ८ ॥ तोयोत्थितं तोयक्रमेणोत्थं तत्पुलिनमुच्यते एकम् | सैकत सिकतामयं द्वे वालुकाप्रचुरस्थानस्य | निषगर: जम्बालः पङ्कः शादः कर्दमः पञ्च कर्दमस्य । तत्र पकः पुनपुंसकयोः ॥ ९ ॥ जलोच्छ्रासा: परीवाहा: “परिवाहाः” । द्वय निर्गममा: प्रवृद्धं जलं परिवहति तेषाम् । तथा च प्रयोगः । “उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाहा इवाम्भसाम्” इति । जलप्रवृद्धिरेव परीवाह इत्येके । कूपका विदारकाः द्वे शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियन्ते तेषाम् । स्रोतोद्विधाकारिणः शिला- दयः कूपका इत्येके । नौतायें नावा तारितुमर्हे जलादौ नाव्यम् । एकम् | सत् त्रिषु | नौ तरणिः तरिः त्रयं नौकायाः । तरीरित्यपि लक्ष्मीवत् । Digitized by Google