पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2.3. 4.2 ५४ सटीकामरकोशस्य विष्टिराजूः कारणा तु यातना तीव्रवेदना || पीडा घाघा व्यथा दुःखममनस्यं प्रसूतिजम् ॥ ३ ॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् || इति नरकवर्गः ॥ ९ ॥ [ नरकवर्गः समुद्रोsब्घिरकूपारः पारावारः सरित्पतिः ।। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादः पतिरपांपतिः ।। तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ २ ॥ 44 एकम् ॥ २ ॥ विष्टिः आजू' द्वे नरके हठात्पस्य । “निर्मूल्यकर्मकरणे” इति सुकुटः । मद्राख्यकरणस्यैत्यन्ये । “विष्टिः कर्मकरेऽमूल्ये भद्रा प्रेरणेषु च " इति हैमः । “आजूवेतनयोर्विष्टिः” इति शाश्वतः । कारणा यातना तीव्रवेदना त्रय नरकपीडामाः । पीडा बाधा। आबाधेति वा छेदः । “आबाघा वेदना दुःखम्” इति हलायुधः । व्यथा दुःखं आमनस्यै “अमानस्यम्” । “असूतिजममान कुछ्र- कटं कलाकुलम्” इति वाचस्पतिः । अत्र अमनसो भाव इति । मानस्यानिम- मिति वा विग्रहः । प्रसूतिजम् || ३ || कटं कृच्छ्र आभील नव दुःखख | अत्र नवापि दुःखस्येत्येके । पीडादिचतुष्कं मनःपीडाया: । आमनस्यादि द्वयं वैमनस्यस्य । कष्टादि त्रयं शरीरपीडाया इति भेदः । एषां मध्ये यद्दुःखादिकं भेद्यगामि विशेष्यवृत्ति तत् त्रिषु । यथा । “सेयं सेवा दुःखा च बहुरूपा " । “सोऽयं दुःखः सुतोऽगुणः" । "सर्वे दुःखं विवेकिन" इति । भेद्यगामित्वाभावे तदुक्तलिङ्गमेव ॥ इति नरकवर्गः ॥ ९ ॥ समुद्रः । समीचीना उद्रा जलचरवि- शेषा यसिन् । सह मुद्रया मर्यादया वर्तते इति वा । “बोपसर्जन” इति सहस्य -सः । अब्धिः अकूपारः पारावार: “पारापारः ” सरित्पतिः उदन्वान् उदधिः सिन्धुः । “सिन्धुर्वमथुदेशाब्धिनदे ना सरिति खियाम्” इति विश्वमेदिन्यौ ।” सरस्वान् सागरः अर्णवः । अर्णासि उदकानि यत्र सन्ति। "अर्णसो लोपच” इति ॥ १ ॥ स्नाकरः जलनिधिः यादः पतिः अपांपतिः पञ्चदश समुद्रमात्रस्य । तस्य समुद्रस्य प्रभेदाः । क्षीरोदः लवणोदः । तथा अपरे दध्युदघृतोदसुरो- देक्षूदखादाः । “लवणेक्षुसुरासर्पिर्दभिक्षीरजलाः समाः " इत्याधुक्तेः Digitized by Google