पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! i 11. ९ ] प्रथमं काण्डम् विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥ इति पातालभोगिवर्गः ॥ ८ ॥ स्यान्भारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥ तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥ संघाँतः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ॥ प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ . ५३ र्यायाः । “हालाहलं हालहलं वदन्त्यपि हलाहलम्" इति द्विरूपकोशः । “गोनास- गोनसौ हालाहलं हालहलं विषम्" इति त्रिकाण्डशेषः । सुराष्ट्रदेशे भवः सौरा- ष्ट्रिकः । " सारोष्ट्रिक इत्यपि " । शुक्लिकायां मनः शौक्लिकेय: सोमल इति प्रसिद्धः । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । यद्याज्ञवल्क्यः । “त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः” इति । प्रदीपयति जठरमिति प्रदीपनः । दरदि देशे भवो दारदः बत्सनामः “बचनाग इति प्रसिद्धः” । विषवैद्यः जाङ्गुलिकः द्वे विषहारवैद्यस्य | जाङ्गुलीं विषविद्यामधीते वेद वा । उक्तं च | "परीक्षित समश्रीयाजाङ्गुलीभिभिषग्वृतः" इति । व्यालग्राही अहितुण्डिकः अस्तुण्डं मुखं “तेन दीव्यति" इति ठक् । इति द्वे सर्पग्राहिण: "गारुडीति प्रसिद्धस्य" । “व्यालग्रासाहितुण्डिक” इति पाठः । तत्र आहितुण्डिक इति ॥११॥ इति पाता- लमोगिवर्गः ॥ ८ ॥ नारकः नरकः निरयः दुर्गतिः चत्वारि नरकस्य | नर- कमेदानाह | तपनः अवीचिः न विद्यते "वीचिः सुखं यत्र | “वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखेऽपि च" इति विश्वः । महारौरखः रौरवः ॥ १ ॥ संघातः ( संहार इत्यपि पाठः) कालसूत्रं इत्याद्यास्तपनादिनरकभेदाः । आद्यशब्दा- चामिस्रकुम्भीपाकादयः । तप्यते अनेन तपनः । जलवत् भासमानोऽप्यश्मपृष्ठ - रूपत्यान बीचयो यत्र सोऽवीचिः | रुरवो नाम ऋव्यादा अतिक्रूरास्तत्सं- बन्धी महानरको महारौरवः । रुरवः सर्पेभ्योऽतिहिंस्रा जन्तुविशेषास्तत्सं- बन्धी रौरवः । सम्यक् हन्यते यत्र संघातः । कालरूपाणि सूत्राणि यत्र तत्का- लसूत्र एकैकम् | नारकाः नरके भवाः सत्त्वाः प्राणिनः प्रेता उच्यन्ते एकम् । नारकी सिन्धुर्नदी वैतरणी ज्ञेया । विगतस्तरणिर्यत्र तत्र भवा । विगता तर- निर्यित्र वा एकम् । नारक्यलक्ष्मीरशोभा निऋतिः उच्यते । निर्गता ऋतिर्घृणा यस्याः । “ऋतिर्गतौ घृणायां च श्रद्धायांच शुभेऽपिच" इति रभसः । ● Digitized by Google 4.2