पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] प्रथमं काण्डम्. निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये !! सत्येऽथ संकुलक्लिष्टे परस्परपराहते ॥ १९ ॥ लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ।। अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु सृषार्थकम् ।। (“ सोडण्ठनं तु सोत्प्रासं भणितं रतिकूजितम् || श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥ १ ॥”) (१) अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्धति || स्परेण पराहतं “माता मे वन्ध्येतिवत् " पूर्वापरविरुद्धं तत्र संकुल लिष्टमिति नाम- द्वयम् । “यथा पश्यत्यचक्षुः स शृणोत्यकर्णः” ॥ १९॥ यत् लुप्तवर्णपदं असंपूर्णोश्चा- रितं वचस्तद् ग्रस्तमित्येकम् । “ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते" इत्युक्तम् । यत्त्वरितोदितं तभिरस्तं एकम् । सनिष्ठीवं लालायुक्तं तदम्बूकृतमुच्यते । अम्बू इति च्व्यन्तम् । सनिष्ठेवमपि एकम् । यद्नर्थकं अर्थशून्यं तदबद्धं स्यात् एकम् । अवध्यमपि । “अवध्यमवधार्हे स्यादनर्थकवचस्यपि” इति दर्शनात् ||२०|| अन- क्षरं न प्रशस्ताक्षराणि यस्मिन् | अक्षराणामप्राशस्त्यं चार्थद्वारकं तच्च बचना- नर्हम् अवाच्य द्वे वक्तुमर्हस्य वचसः । मृषार्थकं अत्यन्ता भूतार्थकं तत् आहतं ज्ञेयम् । यथा । “एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णांभसि स्नातः शशशुङ्गधनुर्धरः" इति । एकम् । सोलुण्ठनादि द्वे सोपहासवचनस्य | भणितादि द्वे रतिसमयकूजितस्य । मणितमित्यपि पाठः । श्राव्यादि पञ्च स्पष्टवचनस्य । म्लिष्टम् । क्षुब्धखान्तेति निपातनादिडभावः । अविस्पष्टम् । अत्र म्लिष्टमित्यो- घ्यादिपाठः एव दृश्यते । “म्लिष्टं त्रिष्वव्यक्तवाचि" इति मेदिनी । द्वे अव्यक्तवच- नस्य । यदनृतं वचः । यथा सत्यपि धने नास्ति धनमिति तद्वितथमित्युच्यते एकम् ॥ २१ ॥ सत्यम् । “सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति" इति रभसः । तथ्य ऋतं सम्यक् चत्वारि सत्यस्य | सम्यक् चकारान्तः । पूर्व वाग्मेदास्तु त्रिष्ट- चर इति वचनवृत्तित्वेन सत्यादीनां त्रिलिङ्गत्वमुक्तम् । यथा सत्यः शब्दः सत्या वाक् सत्यं वचनमिति । इदानीं वक्तृवृत्तित्वेन एषां त्रिलिङ्गत्वमाह असूनीति | १ इदं पद्मं तालपत्र पुस्तकेऽपि नास्ति || 18-21 Diglized by Google